SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२८ अनगारधर्मामृते जिनप्रतिमातद्गृहादौ सम्यक्त्वक्रियासाधने । किंविशिष्टे ? स्वकारिते आत्मना निर्मापिते । तथा वर्तते । कोसौ ? असौ देवः । कस्य ? अ. न्यस्य । कैवं प्रवर्तते ? अर्हचैत्यादौ । किंविशिष्टे ? अन्यकारिते । तन्मालिन्यमाचष्टे तदप्यलब्धमाहात्म्यं पाकात्सम्यक्त्वकर्मणः। मलिनं मलसङ्गेन शुद्धं स्वर्णमिवोद्भवेत् ॥ ५९॥ उद्भवेत् । आत्मानं लभेत कदाचित् । किं तत् ? तद् वेदकम् । कथं. भूतं सत् ? मलिनं । किंविशिष्टम् ? अलब्धमाहात्म्यमप्राप्तकर्मक्षपणातिशयम् । केन? मलसङ्गेन । शङ्कादिदोषसंसर्गेण । कस्मात् ? पाकात् शुभपरिणाममान्ये सत्युदयात् । कस्य ? सम्यक्त्वकर्मणः । किंविशिष्टं सत् ? शुद्धं प्राग निर्मलमपि जातमपि शब्दस्यात्र योजनं । किमिव ? स्वर्णमिव यथा काञ्चनं पूर्व स्व हेतोः शुद्धमप्युत्पन्नं सद्जतादिमलसंसर्गेणालब्धमाहात्म्यं स्यात् तथा प्रकृतमपि । तञ्चलत्वं विवृणोति लसत्कल्लोलमालासु जलमेकमिव स्थितम् । नानात्मीयविशेषेषु चलतीति चलं यथा ॥६० ।। वेदकं चलमुच्यते । कुतः ? इति हेतोः यतश्चलति । केषु? नानात्मीयविशेषेषु नानाप्रकारस्वविषयदेवादिभेदेषु । किमिव ? एकं जलमिव । किंविशिष्टम् ? स्थितम्। कासु ? लसत्कल्लोलमालासु । लसन्तीषु तरङ्गपतिषु । यथेत्यनेनोल्लेखं दर्शयति । तदुल्लेखमाह समेप्यनन्तशक्तित्वे सर्वेषामहतामयम् । देवोसै प्रभुरेषोसा इत्यास्था सुदृशामपि ॥ ६१॥ भवति । कासौ ? आस्था प्रतिपत्तिदायम् । केषाम् ! सुदृशामपि सम्यम्दृष्टीनामपि । कथं ? इति एवं भवति । कोसौ ? अयं पार्श्वनाथादिदेवः । किविशिष्टः ? प्रभुः समर्थः । कस्मै ? अस्मै उपसर्गनिवारणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy