________________
द्वितीयोऽध्यायः।
१२७
वत् ? पङ्कवत् । कर्दमे यथा । किंवद्भाति ? अम्बुवत् । यथा पङ्के क्षिप्ते शुद्ध स्फटिके स्फटिकभाजनेऽतिशुद्धं जलं भातीत्यर्थः । वेदकस्यान्तरङ्ग हेतुमाहपाकादेशनसम्यक्त्वप्रकृतेरुदयक्षये ।
शमे च वेदकं षण्णामगाढं मलिनं चलम् ।। ५६ ॥ भवति । किं तत् ? वेदकं क्षायोपशमिकं सम्यक्त्वम् । किंविशिष्टम् ? अगाढं मलिनं चलं च । कस्मात् ? पाकादुदयात् । कस्याः ? देशनसम्यक्त्वप्रकृतेः । सम्यक्त्वमेव प्रकृतिः सम्यक्त्वप्रकृतिः । देशं सम्यग्दर्शनांशं हन्तीति देशघ्नी । सा चासौ सम्यक्त्वप्रकृतिश्च देशनसम्यक्त्वप्रकृतिस्तस्याः । न केवलं तत्पाकात्, उदयक्षये शमे च सति । केषाम् ? षण्णां मिथ्या. त्वादीनामुदयप्राप्तानामुदयस्य निवृत्तौ । तेषामेवानुदयप्राप्तानामुपशमे च सदवस्थालक्षणे। वेदकस्यागाढत्वं दृष्टान्तेनाचष्टे
वृद्धयष्टिरिवात्यक्तस्थाना करतले स्थिता ।
स्थान एव स्थितं कम्प्रमगाढं वेदकं यथा ॥ ५७ ॥ वेदकमगाढं भण्यते। किंविशिष्टम् ? स्थान एव देवादौ स्वविषये एव स्थितमवष्टब्धं सत् कम्प्रं कम्पनशीलम् । केव? वृद्धयष्टिरिव । किंविशिष्टा? अत्यक्तस्थाना । किंविशिष्टा सती ? करतले हस्ततले स्थिता। यथेत्युदाहरणप्रदर्शने। तदगाढतोल्लेखमाह
खकारितेर्हचैत्यादौ देवोयं मेऽन्यकारिते।
अन्यस्यासाविति भ्राम्यन्मोहाच्छ्राद्धोपि चेष्टते ॥५८॥ चेष्टते प्रवृत्तिनिवृत्ती करोति । कोसौ ? श्राद्धोपि श्रद्धावान् सदृष्टिः । किंपुनर्मिथ्यादृष्टिरित्यपिशब्दार्थः। कमात् ? मोहात् सम्यक्त्वप्रकृतिवि. पाकात् । किं कुर्वन् ? भ्राम्यन् प्रान्ति संशयं गच्छन् । कथमिति । वर्तते । कोसौ? अयं देवः । कस्य ? मे मम । वैवं प्रवर्तते ? अर्हचैत्यादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org