________________
१२६
अनगारधर्मामृते
दृष्ट्वा ताभ्यां तद्धेतून् प्रशमादीन्निश्चित्य तैः परस्य सम्यक्त्वमनुमिनुयात् । औपशमिकस्यान्तरङ्गहेतुमाह
शमान्मिथ्यात्वसम्यक्त्व मिश्रानन्तानुबन्धिनाम् 1 शुद्धेम्भसीव पङ्कस्य पुंस्यौपशमिकं भवेत् ॥ ५४ ॥
भवेत् । किं तत् ? औपशमिकं सम्यक्त्वम् । क्व ? पुंसि जीवे । किंविशिष्टे ? शुद्धे । कस्मात् ? शमादुपशमात् । केषाम् ? मिथ्यात्वसम्यक्त्वमिश्रानन्तानुबन्धिनाम् । कस्मिन्निव ? शुद्धे कतकफलप्रक्षेपसंपादितात्पङ्कस्य शमादम्भसि स्फटिकभाजनस्थे— जले यथा । यदुदयात्सर्वज्ञोक्तमार्गश्रद्धानपराङ्मुखो मिथ्यादृष्टिर्भवति तन्मिथ्यात्वम् । मिथ्यात्वमेव शुभपरिणामनिरुद्धस्वरसमौदासीन्यस्थितं श्रद्धानाप्रतिबन्धकं सम्यक्त्वं परं यदुदयासर्वज्ञोक्तसम्यग्दृष्टिर्जीव उच्यते । मिथ्यात्वकर्मार्द्धशुद्धस्वरसं मिश्रं सम्यग्मिथ्यात्वमुच्यते । प्रक्षालन विशेषात्क्षीणाक्षीणमदशक्तिकोद्रववत् । यदुदयादात्मनोर्द्धशुद्ध मदनकोद्रवौदनोपयोगापादितमिश्रपरिणामवदुभयात्मको भवति परिणामः । मिथ्यात्वं च सम्यक्त्वं च मिश्रं चानन्तानुबन्धिनश्च क्रोधादयश्चत्त्वार इति विग्रहः । उपशमः प्रयोजनमस्येत्योपशमिकम् ।
क्षायिकस्यान्तरङ्ग हेतुमाह
तत्कर्मसप्तके क्षिप्ते पङ्कवत्स्फटिकेम्बुवत् । शुद्धेऽतिशुद्धं क्षेत्रज्ञे भाति क्षायिकमक्षयम् ॥ ५५ ॥
भाति । किं तत् ? क्षायिकं सम्यक्त्वम् । किं विशिष्टम् । अक्षयमविनाशि । पुनः किंविशिष्टम् ? अतिशुद्धं त्यक्तशङ्कादिदूषणत्वेन शुद्धादौ पशमिकादतिशयेन शुद्ध, प्रक्षीणप्रतिबन्धकत्वात् । अत एव भाति नित्यं दीप्यते, कदाचित्केनापि क्षोभयितुमशक्यत्वात् । तदुक्तम्
रूपैर्भयंकरैर्वाक्यैर्हेतुदृष्टान्तदर्शिभिः ।
जातु क्षायिक सम्यक्त्वो न क्षुभ्यति विनिश्चलः ॥
1
व तद्भाति ? क्षेत्रज्ञे आत्मनि । किंविशिष्टे ? शुद्धे । अतीत्यत्रापि योज्यम् । अत्यन्तनिर्मले इत्यर्थः । क्व सति ? तत्कर्मसप्तके । तेषां मिथ्यात्वा'दीनां कर्मणां सप्तके । किंविशिष्टे ? क्षिप्ते सामग्रीविशेषेण विश्लेषिते । .किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org