________________
द्वितीयोऽध्यायः ।
१२५
भवति । कोसौ ? प्रशमः । किम् ? विगमोऽनुद्रेकः । केषाम् ? रागा. दीनां क्रोधादीनाम् । साहचर्यान्मिथ्यात्वसम्यमिथ्यात्वयोश्च । किंविशिष्टानाम् ? अनन्तानुबन्धिनाम् । अनन्तं संसारमनुबन्नन्ति बीजाङ्करन्या. येन प्रवर्तयन्ति तच्छीलाः । तथा भवति । कोसौ ? संवेगः । किम् ? भवभयं संसारभीरुता । तथा भवति । कासौ ? अनुकम्पा । किम् ? अखि. लसत्त्वकृपा । अखिलेषु सस्थावरेषु नरकादिगतिषु सीदत्सु जीवेषु कृपा दया । तथा भवति । किम् ? आस्तिक्यम् । किम् ? अखिलतत्त्वमतिः । हेयस्य परद्रव्यादेहेयत्वेनोपादेयस्य च स्वशुद्धात्मस्वरूपस्योपादेयत्वेन प्रतिपत्तिः । अखिलानां स्वपरद्रव्याणां तत्त्वेन हेयोपादेयत्वेन मतिः प्रतिपत्तिरिति विग्रहः। __ स्वपरगतसम्यक्त्वसद्भावनिर्णयः केन स्वादित्याहतैः स्वसंविदितैः सूक्ष्मलोभान्ताः स्वां दृशं विदुः। प्रमत्तान्तान्यगां तज्जवाक्चेष्टानुमितः पुनः ॥ ५३ ॥
विदुः जानन्ति । के ? सूक्ष्मलोभान्ताः । सूक्ष्मो लोभः साम्परायो यस्यासौ सूक्ष्मलोभो दशमगुणस्थानवी जीवोऽन्ते येषामसंयतसम्यरदृष्टयादीनां ते सूक्ष्मलोभान्ता असंयतसम्यग्दृष्टया दिसूक्ष्मसांपरायपर्यन्ताः सप्त । कां विदुः ? दृशं सम्यक्त्वम् । किंविशिष्टाम् ? स्वामात्मी. याम् । कैः ? तैः स्वगतसम्यक्त्वजन्यैः प्रशमादिभिश्चतुर्भिलिङ्गैः। किंविशिष्टः ? स्वसंविदितैः स्वेनात्मना सम्यग्निीतैः । प्रमत्तान्तान्यगां पुनईशं विदुः । सूक्ष्मलोभान्ता यथास्वं व्यवहारिणः । कैः ? तैः। किंविशिष्टैः ? तज्जवाक्चेष्टानुमितैः । प्रमत्तः प्रमादशबलचारित्रोऽन्ते येषां ते प्रमत्तान्ताः। ते च तेऽन्ये प्रमातुरात्मनो भिन्नाः प्रमत्तान्तान्ये । तान् गच्छतीति तद्दा । तामसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताख्यपरजीवव. तिनीम् । तेभ्यः स्वगतसम्यक्त्वजन्यप्रशमादिभ्धो जाते तज्जे। वाक चेष्टा च वाक्वेष्टे वचःकायव्यापारौ । तजे च ते वाकेष्टे च तज्जवावेष्टे । ताभ्यामनुमिताः परगताः प्रशमादयस्तज्जवाक्केष्टानुमितास्तैः। अ. यमर्थः, सम्यक्त्वनिमित्तकान् प्रशमादीन् स्वस्य स्वसंवेदनेन निश्चित्य तद. विनाभाविन्यौ च वाकेष्टे यथास्वं निर्णीय तथाविधे च परस्य वाकेटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org