________________
१२४
अनागारधर्मामृते
खिमधीर्विचारक्लिष्टमनाः सन् मोहवैधुर्यात्तत्वं रोचते इति संबन्धः । उक्तं च
निसर्गोधिगमो वापि तदाप्तौ कारणद्वयम् ।
सम्यक्त्वभाक् पुमान्यस्मादल्पानल्पप्रयासतः॥ किंच
यथा शूद्रस्य वेदार्थे शास्त्रान्तरसमीक्षणात् । स्वयमुत्पद्यते ज्ञानं तत्त्वार्थे कस्यचित्तथा ॥ इदानी सम्यक्त्वभेदानाह
तत्सरागं विरागं च द्विधौपशमिकं तथा ।
क्षायिक वेदकं त्रेधा दशधाज्ञादिभेदतः ॥५०॥ तत्सुदर्शनं भवति । कतिधा ? द्विधा । कथम् ? सरागं विरागं च । तथा तत्रेधा भवत्यौपशमिकं क्षायिकं वेदकं चेति । तथा तद्दशधा भवत्याज्ञादिभेदतः । आज्ञादिभिर्भेदमाश्रित्य । सरागेतरसम्यक्त्वयोरधिकरणलक्षणोपलक्षणार्थमाह
ज्ञे सरागे सरागं स्याच्छमादिव्यक्तिलक्षणम् ।
विरागे दर्शनं त्वात्मशुद्धिमानं विरागकम् ॥५१॥ दर्शनं सरागं स्यात् । क ? ज्ञे तत्त्वज्ञे पुंसि। किंविशिष्टे ? सरागे असं. यतसम्यग्दृष्ट्यादौ । किंविशिष्टम् । शमादि व्यक्तिलक्षणं शमादीनां प्रशमसंवेगानुकम्पास्तिक्यानां व्यक्तिरुपलब्धिः सैव लक्षणं ज्ञापकं यस्य तत्तथोक्तम् । विरागे तूपशान्तकषाया दिगुणस्थानद्वर्तिनि दर्शनं स्यात् । किंविशिष्टम् ? विरागकं वीतरागम् । पुनः किंविशिष्टम् ? आत्मशुद्धिमानम् । आत्मनो जीवस्य शुद्धिर्टग्मोहस्योपशमेन क्षयेण वा जनितप्रसादः । सैव तन्मात्रं, न प्रशमादिचतुष्टयम् । तत्र हि चारित्रमोहस्य सहकारिणोऽपायान्न प्रशमा. धभिव्यक्तिः स्यात् । केवलं स्वसंवेदनेनैव तद्वद्येत ।
प्रशमादीनां लक्षणमाहप्रशमो रागादीनां विगमोऽनन्तानुबन्धिनां संवेगः। भवभयमनुकम्पाखिलसत्त्वकृपास्तिक्यमखिलतत्त्वमतिः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org