________________
द्वितीयोऽध्यायः।
१२३
चरमसमये त्रिधा करोति शुद्धाशुद्धमिश्रभेदेन सम्यक्त्वं मिथ्यात्वं सम्यमिथ्यात्वं चेति । श्लोकः
प्रशमय्य ततो भव्यः सहानन्तानुबन्धिभिः। ता मोहप्रकृतीस्तिस्रो याति सम्यक्त्वमादिमम् ॥ संवेगप्रशमास्तिक्यदयादिव्यक्तलक्षणम् । तत्सर्वदुःखविध्वंसि त्यक्तशङ्कादिदूषणम् ॥ उक्तं च
क्षीणप्रशान्त मिश्रासु मोहप्रकृतिषु क्रमात् । पश्चाद् द्रव्यादिसामय्या पुंसां सद्दर्शनं त्रिधा ॥ कौ निसर्गाधिगमावित्याहविना परोपदेशेन सम्यक्त्वग्रहणक्षणे ।
तत्त्वबोधो निसर्गः स्यात्तत्कृतोधिगमश्च सः ॥४८॥ स्यात् । कोसौ ? निसर्गः। को निसर्गः ? तत्त्वबोधः । क ? सम्यक्त्वग्रहणक्षणे । कथम् ? विना । केन? परोपदेशेन गुर्वादेर्वचनविशेषमन्तरेणैव । तथाधिगमः स्यात् । कोसौ ? स तत्त्वबोधः । किंविशिष्टः ? तत्कृतस्तेन परोपदेशेन जनितः। एतदेव समर्थयते
केनापि हेतुना मोहवैधुर्यात्कोपि रोचते ।
तत्त्वं हि चर्चानायस्तः कोपि च क्षोदखिन्नधीः ॥४९॥ हि यस्माद्रोचते श्रद्धत्ते । कोसौ ? कोपि कश्चिद्भव्यः । किं तत् ? तत्त्वं परापरवस्तुयाथात्म्यम् । किंविशिष्टः सन् ? चर्चानायस्तः । चर्चया क्षोदेनानायस्त आयासमप्राप्तः । कस्मात् ? मोहवैधुर्यात् । मोहयन्ति दर्शनं प्रतिबध्नन्तीति मोहा मिथ्यात्वादिसप्तप्रकृतयः । तेषां वैधुर्यमुपशमः क्षयः क्षयोपशमो वा मोहवैधुर्य तस्मात् । केन ? हेतुना निमित्तेन । किंविशिष्टेन ? केनापि वेदनाभिभवादीनामन्यतमेन जनितात् । कोपि च कश्चित् क्षोद-.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org