SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२२ अनगारधर्मामृते टीकोटीसागरोपमस्थितौ स्थापितेष्वाद्यसम्यक्त्वयोग्यता भवति इति प्रायोगिकी लब्धिः । ४ । श्लोकः अथप्रवृत्तकापूर्वानिवृत्तिकरणत्रयम् । विधाय क्रमतो भव्यः सम्यक्त्वं प्रतिपद्यते ॥ भव्योऽनादिमिथ्यादृष्टिः षड्विंशतिमोहप्रकृतिसत्कर्मकः सादिमिथ्यादृष्टिा पडिशतिमोहप्रकृतिसत्कर्मकः सप्तविंशतिमोहप्रकृतिसत्कर्मको वाष्टाविंश. तिमोहप्रकृतिसत्कर्मको वा प्रथमसम्यक्त्वमादातुकामः शुभपरिणामाभिमुखोऽन्तर्मुहूर्तमनन्तगुणवृड्या वर्धमानविशुद्धिश्चतुषु मनोयोगेष्वन्यतमेन मनोयोगेन चतुर्ष वाग्योगेष्वन्यतमेन वाग्योगेनौदारिकवैक्रियिककाययोगयोरन्यतरेण काययोगेन त्रिषु वेदेष्वन्यतमेन वेदेनालीढो निरस्तसंक्लेशो हीयमानान्यतमकषायः साकारोपयोगो वर्धमानशुभपरिणामयोगेन सर्वप्रकृतीनां स्थिति ह्रासयनशुभप्रकृतीनामनुभागबन्धमपसारयन् शुभप्रकृतीनां वर्धयंस्त्रीणि करणानि प्रत्येकमन्तर्मुहूर्तकालानि कर्तुमुपक्रमते । तत्रान्तःकोटीकोटीस्थितिकानि कर्माणि कृत्वा अधःप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च क्रमेण प्रविशति । तत्र सर्वकरणानां प्रथमसमये स्वल्पशुद्धिः । ततः प्रतिसमयमन्तर्मुहूर्तसमातेरनन्तगुणा द्रष्टव्या । सर्वाणि करणान्यन्वर्थानि । अथ प्रान प्रवृत्ताः कदाचिदीदृशाः करणाः परिणामा यत्र तदथप्रवृत्तकरणम् । अधःस्थैरुपरिस्थाः समानाः प्रवृत्ताः करणा यत्र तदधःप्रवृत्तकरणमिति वान्वर्थसंज्ञा । अपूर्वाः समये समयेऽन्ये शुद्धतराः करणा यत्र तदपूर्वकरणम् । एकसमयस्थानामनिवृत्तयोऽभिन्नाः करणा यत्र तदनिवृत्तिकरणम् । सर्वेषु करणेषु नानाजीवानामसंख्येयलोकप्रमाणाः परिणामा द्रष्टव्याः । तत्राथप्रवृत्त. करणे स्थितिखण्डनानुभागखण्डनगुणश्रेणिसंक्रमा न सन्ति । परमनन्तगुण. वृद्धथा विशुद्धयाऽशुभप्रकृतीरनन्तगुणानुभागहीना बनाति शुभप्रकृतीरनन्तगुणरसवृद्धाः, स्थितिमपि पल्योपमासंख्येयभागहीनां करोति । अपूर्वकरणानिवृत्तिकरणयोः स्थितिखण्डनादयः सन्ति । क्रमेणाशुभप्रकृतीनामनुभा. गोऽनन्तगुणहान्या शुभप्रकृतीनां चानन्तगुणवृद्धया वर्तते । तत्रानिवृत्तिकरणस्यासंख्येयेषु भागेषु गतेष्वन्तरकरणमारभते येन दर्शनमोहनीयं निहत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy