________________
द्वितीयोऽध्यायः ।
चदुगभिव्वो सण्णी पज्जत्तो सुद्धगो य सागारो । जागारो सल्लेस्सो सलद्धिगो सम्ममुवगमइ ॥
दृष्टिघ्नानि । दृष्टिं सम्यक्त्वं घ्नन्ति इति दृष्टिघ्नानि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वानन्तानुबन्धिक्रोधमानमायालो भाख्यानि कर्माणि । उपशमः स्वफलदानसामर्थ्यानुद्भवः । क्षय आत्यन्तिकी निवृत्तिः । क्षयोपशमः -- सर्वथात्मगुणप्रच्छादिकाः कर्मशक्तयः सर्ववातिस्पर्धकान्युच्यन्ते । विवक्षितैकदेशेनात्मगुणप्रच्छादिकाश्च देशघातिस्पर्द्धकानि । सर्वघातिस्पर्द्धकानामुदयाभाव एव क्षयस्तेषामेवास्तित्वमुपशम उच्यते । क्षयेण सहित उपशमस्तेषामेव देशघातिस्पर्द्धकानामुदयश्च । इति समुदायेन क्षयोपशमो भण्यते । कालादिलब्धयो यथा— भव्यः कर्माविष्टोऽई पुद्गल परिवर्तपरिमाणे कालेऽवशिष्ट प्रथमसम्यक्त्वयोग्यो भवति । इति काललब्धिः । आदिशब्देन वेदनाभिभवजातिस्मरणजिनेन्द्राची दर्शनादयो गृह्यन्ते । पद्यानि -
१२१
धर्मश्रुतिजातिस्मृति सुरद्धि जिनमहिमदर्शनं मरुताम् । बाह्यं प्रथमदृशो विना सुरर्द्धाक्षयानतादिभुवाम् ॥ ग्रैवेयकिणां पूर्वे द्वे सजिनार्वेक्षणे नरतिरश्चाम् । सरुगभिभवे त्रिषु प्राक् श्वभ्रेष्वन्येषु स द्वितीयोसौ ॥ क्षायोपशमिक लब्धि शौद्धीं देशनिकीं भवी ।
प्रायोगिकीं समासाद्य कुरुते करणत्रयम् ॥ प्रागुपात्तकर्मपटलानुभागस्पर्द्धकानां शुद्धियोगेन प्रतिसमयानन्तगुणहीनानामुदीरणा क्षायोपशमिकी लब्धिः १ | श्लोकः
वर्ग: शक्तिसमूहोणोरणूनां वर्गणोदिता । वर्गणानां समूहस्तु स्पर्द्धकं स्पर्द्धकापहैः ॥
क्षयोपशम विशिष्टोदीर्णानुभागस्पर्द्धकप्रभवः परिणामः सातादिकर्मबन्धनिमित्तं सावद्यकर्मबन्धविरुद्धः शौद्धी लब्धिः । २ । यथार्थतत्त्वोपदेशतदुपदेशकाचार्याद्युपलब्धिरुपदिष्टार्थग्रहणधारण विचारणशक्तिर्वा देशनिकी लब्धिः । ३ । अन्तःकोटी कोटी सागरोपमस्थितिकेषु कर्मसु बन्धमापद्यमानेषु विशुद्धपरिणामयोगेन सत्कर्मसु संख्येयसागरोपमसहस्रोनायामन्तः को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org