________________
१२०
अनगारधर्मामृते
पर्यायरूपतया आदिमदपि । किं कृत्त्वा ? कृत्वा । किं तत् ? जन्म संसारम् । किंविशिष्टम् ? सान्तं सविनाशम् । किंविशिष्टमपि ? अनाद्यपि संतानरूपतया आदिरहितमपि । पुनः किंविशिष्टाः ? सदानन्दिनः नित्यानन्दभाजः । अथवा सदा सर्वदा नन्दितुमनन्तज्ञानादिसमृद्वीभवितुं शीलमेषां त एवम् । इति समासतो जीवादिनवपदार्थव्यवस्था । व्यासतस्तु परमागमार्णवावगाहनादधिगन्तव्या ।
एवं विधतस्वार्थ श्रद्धानलक्षणस्य सम्यक्त्वस्य सामग्रीविशेषं श्लोकद्वये
नाह
_
दृष्टिन सप्तकस्यान्त तावुपशमे क्षये ।
क्षयोपशम आहोस्विद्भव्यः कालादिलब्धिभाक् ॥ ४६ ॥ पूर्णः संज्ञी निसर्गेण गृह्णात्यधिगमेन वा । त्र्यज्ञानशुद्धिदं तच्चश्रद्धानात्म सुदर्शनम् ॥ ४७ ॥ युग्मम् ।
?
"
गृह्णाति स्वीकरोति । कोसौ ? भव्यः सिद्धेर्योग्यो जीवः । किं तत् सुदर्शनम् । किंविशिष्टम् ? तत्त्वश्रद्धानात्म तत्त्वानां जीवादीनां श्रद्धानं तथेति प्रतिपत्तिरात्मा स्वरूपं यस्य तद्दर्शनमोहरहितमात्मस्वरूपं, न पुनारुचिस्तस्याः क्षीणमोहेष्वभावात् । तथा च सम्यक्त्वाभावेन ज्ञानचारित्राभावात्तेषां मुक्त्यभावः स्यात् । यत्तु तत्त्वरुचिमिति प्रागुक्तं तदुपचारात् । पुनः किंविशिष्टम् ? त्र्यज्ञानशुद्धिदम् | त्रयाणामज्ञानानां मिथ्यामतिश्रुतावधीनां शुद्धिं यथार्थग्राहित्वहेतुं नैर्मल्यं दत्ते यत्तदेवम् । केन ? निसर्गेणाधिगमेन वा । च सति ? अन्तर्हेतौ अन्तरङ्गकारणे । किंविशिष्टे ? उपशमे क्षये आहोस्विदथवा क्षयोपशमे । कस्य ? दृष्टिन सप्तकस्य । दृष्टिनानां सतकं तस्य किं विशिष्टो भव्यः ? कालादिलब्धिभाकू काल आदिर्येषां वेदनाभिभवादीनां ते कालादयस्तेषाम् लब्धिः सम्यक्त्वादाने योग्यता । तां भजन् । पुनः किं विशिष्टः ? पूर्णः आहारशरीरेन्द्रियप्राणापानभाषामलक्षण पर्याप्तियुक्तः । पुनरपि किं विशिष्टः ? संज्ञी शिक्षालापोपदेशप्राही । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org