________________
द्वितीयोऽध्यायः।
११९
सम्यग्दर्शनाराधनाप्राधान्येन प्रक्रम्य संपूर्ण रत्नत्रयं कृत्वा प्रक्षीणकर्ममलकलङ्काः स्वात्मोपलब्धिलक्षणां सिद्धिमध्यासिताः। एवं सम्यग्ज्ञानादावपि योज्यम् । किं कुर्वन्तः ? मजन्तः प्लवमानाः प्रतिक्षणमुत्पादव्ययध्रौव्यैकत्वलक्षणां वृत्तिमाक्रामन्तः । क ? स्वमहसि स्वाभाविकनिजतेजसि । किंविशिष्ट ? स्वार्थप्रकाशात्सके । स्व आत्मा अर्थवैकालिकं ज्ञेयं वस्तु । स्वश्वार्थश्च स्वार्थों । तयोः प्रकाशो युगपद्भाविज्ञप्तिलक्षणःपरिणामः । स एवात्मा स्वरूपं यस्य तस्मिन् । क्व सति ? मले द्रव्यभावरूपे कर्मणि । किंविशिष्टे ? प्रक्षीणे निःशेषतः क्षयं गते । किंवत् ? मणिवत् । यथा मणयो जात्यरत्नानि वसंसर्गिणि मले प्रच्युते, स्वपररूपोद्योतस्वभावे स्वतेजसि मज्जन्ति तथा मुक्तात्मान इत्यर्थः । पुनः किंविशिष्टाः। नीत्यादि । उपाख्या स्वभावः । उपाख्याया निष्क्रान्तो निरुपाख्यो निःस्वभावः । तथा मोघा निष्फला चिच्चेतना यत्रासौ मोघचित् । तथाऽविद्यमाना चिद्यत्रासावचित् । निरुपाख्यश्च मोघचिच्चाचिच्च निरुपाख्यमोघचिदचितः । ते च ते मोक्षाश्च मुक्तयो वा निरुपाख्यमोघचिदचिन्मोक्षाः। तानर्थयन्ते वाञ्छन्ति अभ्युपगच्छन्ति ये ते तदर्थिनः । तत्र निरुपाख्यमोक्षार्थिनः 'प्रदीपनिर्वाणकल्प. मात्मनो निर्वाणमिति' निःस्वभावमोक्षवादिनो बौद्धाः । मोघचिन्मोक्षार्थिनः 'चैतन्यं पुरुषस्य स्वरूपं, तच्च ज्ञेयाकारपरिच्छेदपराङ्मुखम्' इति निष्फलचैतन्यरूपमोक्षवादिनः सांख्याः। अचिन्मोक्षार्थिनो बुद्ध्यादिनवात्मविशेषगुणोच्छेदलक्षण निश्चैतन्यमोक्षवादिनो वैशेषिकाः । तेषां तीर्थान्यागमान क्षिपन्ति निराकुर्वन्ति, जीवन्मुक्त्यवस्थायां तद्विलक्षणमोक्षव्यवस्थापकत्वात् परममुक्त्यवस्थायां च तत्प्रेतिष्ठितत्वात् , यत एवम् । पुनरपि किंविशिष्टाः ? श्रिता अध्यासिताः। किं तत् ? अमृतं मोक्षम् । किविशिष्टम् ? अनन्तं पुनर्भवाभावान्निरवधि । किंविशिष्टमपि ? साद्यपि
१ जीवन्मुक्त्यवस्थायामुपदिशन्तस्तत्त्वानि केवलज्ञानिनो मोक्षस्वरूपं तथा नोपादिशन् यथा बौद्धादय उपादिशन् । किंतु तद्विलक्षणरूपेणोपादिशन् । स चोपदेशो युक्तिभिः समर्थितश्च । अतो बौद्धादिकल्पितं मोक्षस्वरूपं निराकुर्वाणास्ते इति हेतुपूर्विका निराकरणप्रतिज्ञा । २ यथा च जीवन्मुक्तो मुक्तिस्वरूपं व्यवस्थाप्य दर्शितं तत्रैव ते तिष्ठन्ति परममुक्तौ सत्याम् । इत्ययमपि हेतुस्तन्निरासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org