________________
द्वितीयोऽध्यायः।
__ भवति । कासौ ? निर्जरा प्रत्यासत्तव्यनिर्जरेत्यर्थः। कतिधा? द्विधा अकामा सकामा चेति । तत्राकामा कालपक्वकर्म निर्जरणलक्षणा। सैव विपाकजाऽनौपक्रमिकी चोच्यते । सकामा पुनरूपक्रमापक्वकर्मनिर्जरणलक्षणा। सैवाविपाकजौपक्रमिकी चोच्यते । अत्र समर्थनमाह-यद्यस्माद्भवति । कोसौ ? पाकः पचनं फलदातृत्वम् । केषाम् ? कर्मणामपि । केन कालेन, न केवलं कालेन, उपक्रमेण च । केषामिव ? फलानामिव । यथाम्रादिफलानां पाको विशिष्टरसादिपरिणामः कश्चित्स्वानुरूपकालेन कश्विञ्च पुरुषप्रयुक्तोपायेन तथा ज्ञानावरणादिकर्मणामपि स्वफलसंपादनमित्यर्थः । यत्काले फलदानत्वेन हि यत्कर्मार्जितं तस्मिन्नेव काले फलदानाद्या भवति सा विपाकजा, यत्कर्मबलादुदयावली प्रवेश्यानुभूयते आम्रादिवत् सेतरा । उपक्रमो हि बुद्धिपूर्वकप्रयोगस्वपरिणामः । स च मुमुक्षूणां शुभाशुभपरिणामनिरोधलक्षणसंवरेण शुद्धोपयोगेन च युक्तं तपः। इतरजनानां तु स्वपरयोर्बुद्धिपूर्वकः सुखदुःखसाधनप्रयोगः । पर्ययवृत्तिरित्यनेन सामान्यतः परिणाममात्रस्याप्याश्रयणात् । तथा चोक्तम्
अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः।
बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ मोक्षतत्त्वं लक्षयति
येन कृत्स्नानि कर्माणि मोक्ष्यन्तेऽस्यन्त आत्मनः ।
रत्नत्रयेण मोक्षोसौ मोक्षणं तत्क्षयः स वा ॥४४॥ स्यात् । कोसौ ? असौ मोक्षो जीवन्मुक्तिलक्षणो भावमोक्षः । येन किम् ? येन रत्नत्रयेण निश्चयसम्यग्दर्शनज्ञानचारित्रेण । तत्परिणतेनात्मनेत्यर्थः । मोक्ष्यन्ते कोर्थोऽस्यन्ते अपूर्वाणि परमसंवरद्वारेण निरुध्यन्ते पूर्वोपात्तानि च परमनिर्जराद्वारेण भृशं विश्लेष्यन्ते । कानि ? कर्माणि । किंविशिष्टानि ? कृत्स्नानि प्रथमं घातीनि मोहप्रभृतीनि पश्चाच्चाघातीन्यायुरादीनि । कस्मात् ? आत्मनो जीवात् । वा अथवा स मोक्षः स्यात् । किम् ? मोक्षणं कोर्थस्तरक्षयो वेदनीयायुर्नामगोत्ररूपाणां कर्मपुलाना जीवेन सहात्यन्तविश्लेषः । स एष द्रव्यमोक्षः । उक्तं च
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org