________________
अनगारधर्मामृते
~
~
~
~
वात्मगुणेन चेतनपरिणामेन । संव्रियते कोडं निरुध्यते । कोसौ ? कर्मास्र. वः । कर्म ज्ञानावरणाद्यास्रवत्यनेन भावात्रवो मिथ्यादर्शनादिरित्यर्थः । सुदर्शनादिः सम्यग्दर्शनज्ञानसंयमादिः गुहयादिः । उक्तं च
वदसमिदीगुत्तीओ धम्माणुपिहापरीसहजओ य ।
चारित्तं बहुभेया णायव्वा भावसंवरविसेसा॥ वा अथवा भवति । कोसौ ? सः संवरो द्रव्यसंवर इत्यर्थः । किमा. मा? संवृत्तिः कोर्थस्तद्योग्यतद्भावनिराकृतिः। तस्य कर्मणो योग्या कर्मयोग्यपुद्गलाः । तेषां तद्भावः कर्मत्वपरिणतिस्तद्योग्यतद्भावः । तस्य निरा. कृतिनिराकरणम्।
निर्जरातत्वनिश्चयार्थमाहनिर्जीयते कर्म निरस्यते यया पुंसः प्रदेशस्थितमेकदेशतः। सा निर्जरा पर्ययवृत्तिरंशतस्तत्संक्षयो निर्जरणं मताथ सा ४२
भवति । कासौ ? सा निर्जरा। किंलक्षणा ? पर्ययवृत्तिः संक्लेशनिवृत्तिरूपा परिणतिर्भावनिर्जरेत्यर्थः । यया किम् ? यया कर्तृभूतया करणभूतया वा निर्जीयते कोर्थों निरस्यते । किं तत् ? कर्म । किं विशिष्टम् ? प्रदेशस्थितम् प्रदेशेष्वंशेष्ववस्थितम् । कस्य ? पुंसो जीवस्य । केन ? एकदेशत एकदेशेन, न साकल्येन । अथवा सा निर्जरा मता इष्टा । किम् ? निजरणं कोर्थस्तत्संक्षयो जीवप्रदेशस्थितकर्मविश्लेषः । केन ? अंशत एकदेशेन । एषा द्रव्यनिर्जरा । अथ कथं पर्ययवृत्तिः संक्लेशनिवृत्तिरूपा परिणतिरुच्य. ते ? परिशुद्धो यो बोधः पर्ययस्तत्र वृत्तिरिति व्युत्पत्तेः । यावता क. मैवीर्यशातनसमर्थो बहिरङ्गान्तरङ्गतपोभिहितः शुद्धोपयोगो भावनिर्जरा । तदनुभावनीरसीभूतानामेकदेशेन संक्षयः समुपात्तकर्मपुद्गलानां च द्रव्यनिर्जरा। द्रव्यनिर्जराभेदनिर्णयार्थमाह
द्विधाऽकामा सकामा च निर्जरा कर्मणामपि ।
फलानामिव यत्पाकः कालेनोपक्रमेण च ॥४३॥ १ स भावास्रव इति भवितव्यम् । २–निर्शानार्थमित्यपि पाठः। .
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org