________________
द्वितीयोऽध्यायः।
११५
त्राणि च शुभायुर्नामगोत्राणि । सद्वेधं च शुभायुर्नामगोत्राणि च सद्वेधशुभायुर्नामगोत्राणि । तान्येव भिदो भेदा यस्य तत्तथोक्तम् । तत्र सद्वेद्यं सुखफलं कर्म । शुभमायुविधा नारकायुर्वर्जम् । शुभं नाम सप्तत्रिंशद्भेद-मनुष्यदेवगती पञ्चेन्द्रियजातिः पञ्चशरीराणि त्रीण्यङ्गोपाङ्गानि समचतुरस्रसंस्थानवज्रर्षभनाराचसंहनने द्वे प्रशस्तवर्णगन्धरसस्पर्शा मनुष्यदेवगत्यानुपूर्ये अगुरुलघुपरघातोच्छ्वासातपोद्योतप्रशस्तविहायोगत. यस्त्रसबादरपर्याप्त प्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेययशःकीर्तयो निर्माण तीर्थकरत्वमुच्चैर्गोत्रं च । इति द्वाचत्वारिंशत्प्रकृतयः ।
पापं द्रव्यपापमित्यर्थः । यतः पुद्गलस्य कर्तुनिश्चयकर्मतामापन्नो विशिष्टप्रकृतित्वपरिणामो जीवाशुभपरिणामनिमित्तो द्रव्यपापम् । जीवस्य च कर्तुनिश्चयकर्मतामापन्नोऽशुभपरिणामो द्रव्यपापस्य निमित्तमात्रत्वेन कारणीभूतत्वात्तदास्रवक्षणादूचं भावपापं भवति । किं तत् ? पापम् । किं विशिष्टम् ? अपरमन्यत् । कस्मात् ? ततः पुण्यात् । अशुभपरिणामैकहेतुककर्मात्मबन्धरूपं ब्यशीतिज्ञानावरणादिप्रकृतिभेदमित्यर्थः । ज्ञानावरणस्य प्रकृतयः पञ्च । दर्शनावरणस्य नव । मोहनीयस्य षड्विंशतिः सम्यक्त्वसम्यमिथ्यात्ववर्जाः । पञ्चान्तरायस्य नरकगतितिर्यग्गती द्वे चतस्रो जातयः पञ्चेन्द्रियजातिवर्जाः पञ्च संस्थानानि समचतुरस्रवर्जानि पञ्च संहननानि वज्रर्षभनाराचवर्जानि अप्रशस्तवर्णगन्धरसस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्तसाधारणशरीरास्थिराशुभदुभंगदुःस्वरानादेयायशाकीर्तयश्चेति नामप्रकृतयश्चतुस्त्रिंशत् । असद्वेधं नरकायुर्नीचैगोत्रं चेति ।
संवरस्वरूपविकल्पनिर्णयार्थमाहस संवरः संवियते निरुध्यते कर्मास्रवो येन सुदर्शनादिना । गुप्त्यात्मना वात्मगुणेन संवृतिस्तद्योग्यतद्भावनिराकृतिःस वा।।
भवति । कोसौ ? सः संवरो भावसंवरः शुभाशुभपरिणामनिरोधो द्रव्यपुण्यपापसंवरस्य हेतुरित्यर्थः । येन किम् ? येन सुदर्शनादिना गुल्यादिना
१ एतवयमुदयापेक्षयैव विभज्यते कर्म न बन्धसत्तापेक्षया यतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org