________________
११४
अनगारधर्मामृते
दिकर्मभावपरिणतपुद्गलस्कन्धा बध्यन्ते इत्यर्थः । कषायादिकारणविचि. प्रभावाद्वन्धविचित्रभावः । कारणानुरूपं हि कार्यम् । उक्तं च
स्वभावः प्रकृतिः प्रोक्ता स्थितिः कालावधारणम् ।
अनुभागो विपाकस्तु प्रदेशोशविकल्पनम् ॥ किंच, यथान्नादेहीतस्थानेकविकारसमर्थवातपित्तश्लेष्मखलरसभावेन प. रिणामस्तथा कारणवशादागतस्य कर्मण आस्रवो नारकत्वादिनानारूपतयामनि परिणामः। तथा यथाम्भो नभसः पतदेकरसंभाजनादिसामग्रीविशेषाद्विश्वग्रसत्वेन परिणमते तथा ज्ञानावरणस्याविशिष्टस्याप्यागच्छतः कषायादिसामग्रीतारतम्यान्मत्याद्यावरणरूपेण परिणामः । तथा वेद्यमप्यविशिष्टमागतं कारणविशेषात्सदसद्भेदेन सद्वेद्यमसद्वेद्यं चाल्पमहत्त्वादिभेदेन व्यति. रिच्यते । एवं शेषाणामपि कर्मणां भेदप्रभेदा बोद्धव्याः । एकं कर्म कर्मसामान्यात् । द्विधा पुण्यपापभेदात् । चतुर्दा प्रकृत्यादिभेदात् । अष्टधा ज्ञानावरणादिभेदात् । एवं संख्येयासंख्येयानन्तविकल्पं कर्म भवति । पुण्यपापपदार्थनिर्णयार्थमाहपुण्यं यः कर्मात्मा शुभपरिणामैकहेतुको बन्धः। सद्वेधशुभायुर्नामगोत्रभित्ततोऽपरं पापम् ॥ ४०॥ पुण्यं द्रव्यपुण्यमित्यर्थः । यावता पुद्गलस्य कर्तुनिश्चयकर्मतामापन्नो वि. शिष्टप्रकृतित्वपरिणामो जीवशुभपरिणामनिमित्तो द्रव्यपुण्यम् । जीवस्य च कर्तुनिश्चयकर्मतामापन्नः शुभपरिणामो द्रव्यपुण्यस्य निमित्तमात्रत्वेन कारणीभूतत्वात्तदास्रवक्षणादूर्ध्व भावपुण्यं भवति । किं तत् ? तत्पुण्यम् । यः किम् ? यो बन्धः । किंविशिष्टः ? कर्मात्मा कर्मरूपः । पुनः किंविशिष्टः? शुभपरिणामैकहेतुकः शुभपरिणाम एकः प्रधानं हेतुः कारणं यस्य स एवम् । अत्र योगस्य बहिरङ्गत्वाद्गौणत्वम् । तत्पुनः पुण्यं भवति । किंविशिष्टम् ? सद्वेधशुभायुर्नामगोत्रभित् । सच्च तद्वेद्यं च सद्वेद्यम् । आयुश्च नाम च गोत्रं च आयुर्नामगोत्राणि । शुभानि च तान्यायुर्नामगो.
-
१ येन कारणेन ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org