________________
द्वितीयोऽध्यायः।
प्रक्रियते प्रभवत्यस्या इति प्रकृतिः स्वभावो निम्बगुडादेस्तिक्तत्वमधुरवा. दिवत् । एवं दर्शनावरणस्यार्थानालोचनम् । वेद्यस्य सदसल्लक्षणस्य सुखदुः. खसंवेदनम् । दर्शनमोहस्य तत्वार्थाश्रद्धानम् । चारित्रमोहस्यासंयमः । आयुषो भवधारणम् । नाम्नो नारकादिनामकरणम् । गोत्रस्योच्चैर्नीचैः स्थानसंशब्दनम् । अन्तरायस्य दानादिविघ्नकरणम् । क्रमेण तदृष्टान्तार्थी गाथा यथा
पडपडिहारसिमजाहलिचित्तकुलालभंडयारीणं। जह एदेसि भावा तह कम्माणं वियाणाहि ॥ एवंरूपका बन्धकारिण एवंस्वभावाः परमाणवो बध्यन्ते इत्यर्थः । तथा भवति । कोसौ ? तद्विधिः । किमाख्यः ? स्थितिः । किमात्मा ? अविच्युतिरप्रच्यवनम् । कस्मात् ? तस्माद् ज्ञानावरणादिलक्षणादात्मनः स्वभाधात् । केषाम् ? कर्मणाम् । यथाजागोमहिष्यादिक्षीराणामेतावत्कालं मा. धुर्यस्वभावादप्रच्युतिः स्थितिस्तथा ज्ञानावरणादीनामर्थानवगमनादिस्वभावादेतावत्कालमप्रच्युतिः स्थितिः । अर्थानवगमनादिकार्यकारित्वेन रूपेणाप्रच्युतेनैतावत्कालमेते बध्यन्ते बद्धास्तिष्ठन्तीत्यर्थः । तथा स्यात् । कोसौ ? तद्विधिः । किमाख्यः ? अनुभवः । किमात्मा ? रसः स्वगतसामर्थ्यविशेषः । केषाम् ? कर्मणाम् । यथाजागोमहिष्यादिक्षीराणां तीव्रमन्दादिभावेन स्व. कार्यकरणे शक्तिविशेषोनुभवस्तथा कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्य विशेपोनुभवः । स्वकार्यकरणसमर्थाः परमाणवो बध्यन्ते इत्यर्थः । प्रकृतिबन्धे ह्यष्टकर्मयोग्या आसवानीतास्ते बध्यन्ते, अनुभागबन्धे तु वीर्यविशेषविशिष्टा इति प्रकृतिबन्धादस्य विशेषः । कचिद्धि जीवे शुभपरि. णामप्रकर्षाच्छुभप्रकृतीनां प्रकृष्टोनुभवोऽशुभप्रकृतीनां निकृष्टः, अशुभपरिणामप्रकर्षेऽशुभप्रकृतीनां प्रकृष्टः शुभप्रकृतीनां निकृष्टो बन्धमायाति । स च घातिकर्मणां लतादार्वस्थिपाषाणशक्तिभेदेनाशुभाघातिकर्मणां निम्बकाजीरविषहालाहलरूपेण शुभाघातिकर्मणां च गुडखण्डशर्करामृतरूपेण चतुर्धा भिद्यते । तथा स्यात् । कोसौ ? तद्विधिः । किमाख्यः ? प्रदेशः। किमात्मा ? 'अणुमणना परमाणुपरिच्छेदेनेयत्तावधारणम् । केषाम् ? कर्मणां कर्मभावपरिणतपुद्गलस्कन्धानाम् । एतावद् एतावत्परमाणुप्रमाणप्रदेशा ज्ञानावरणा.
लान -
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org