________________
अनगारधर्मामृते
दिवशाद्विशिष्टशक्तिपरिणामेनावस्थानमित्यर्थः । इह हि बन्धनं बन्ध इति भावसाधनो घन् । उक्तं च
परस्परप्रदेशानां प्रवेशो जीवकर्मणोः ।। एकत्वकारको बन्धो रुक्मकाञ्चनयोरिव ॥ यथा च भाजनविशेषप्रक्षिप्तानां विविधरसवीर्यवत्पुष्पफलानां मदिरादिभावेन परिणामस्तथा पुद्गलानामप्यात्मस्थितानां योगकषायादिवशात्कर्मभावेन परिणामः । स च मन्दतीवादिकारणवशान्मन्दतीवादिरूपो भवति । तदन मोहरागद्वेषस्निग्धः शुभोऽशुभो वा परिणामो जीवस्य भावबन्धः । तनिमित्तेन शुभाशुभकर्मत्वपरिणतानां पुद्गलानां जीवेन सहान्योन्यमूर्छन संश्लेषः द्रव्यबन्धः । उक्तं च
बज्झदि कम्मं जेण दु चेदणभावेण भावबन्धो सो। कम्मादपदेसाणं अण्णोण्णपवेसणं इदरो॥ पयडिहिदिअणुभागप्पदेसभेदादु चदुविधो बंधो। जोगा पयडिपदेसा ठिदिअणुभागा कसायदो होति ॥ आस्रवे बन्धे च मिथ्यात्वाविरत्यादिकारणानि समानानि को विशेषः ? इति चेत्, प्रथमक्षणे कर्मस्कन्धानामागमनमास्रवः आगमनानन्तरं द्वितीयक्षणादौ जीवप्रदेशेष्ववस्थानं बन्ध इति भेदः । तथास्रवे योगो मुख्यो बन्धे च कषायादिः। यथा राजसभायामनुग्राह्यनिग्राह्ययोः प्रवेशने राजादिष्टपुरुषो मुख्यः । तयोरनुग्रह निग्रहकरणे राजादेशः । इति कथंचिदानवबन्धौ प्रति तत्कारणानां भेदः । यद्येवं तर्हि के प्रकृत्यादय इत्याहज्ञानावरणाद्यात्मा प्रकृतिस्तद्विधिरविच्युतिस्तस्मात् । स्थितिरनुभवो रसः स्यादणुगणना कमेणां प्रदेशश्च ॥३९॥ भवति । कोसौ ? तद्विधिः तस्य द्रव्यबन्धस्य विधिः प्रकारो भेदः । किमाख्यः ? प्रकृतिः । किमात्मा ? ज्ञानावरणाद्यात्मा । ज्ञानावरणादिश्चासावात्मा च, ज्ञानावारकादिः स्वभावोऽर्थानवगमादिस्वकार्यकरणशक्तिरिति यावत्. । केषाम् ? कर्मणाम् । ज्ञानावरणस्य हि कर्मणोऽर्थानवगमः कार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org