________________
द्वितीयोऽध्यायः।
१११
बन्धस्वरूपनिर्णयार्थमाह
स बन्धो बध्यन्ते परिणतिविशेषेण विवशी,क्रियन्ते कर्माणि प्रकृतिविदुषो येन यदि वा। स तत्कमानातो नयति पुरुषं यत्सुवशतां,
प्रदेशानां यो वा स भवति मिथः श्लेष उभयोः॥३८॥ भवति । कोसौ ? स बन्धः । येन किम् ? येन परिणतिविशेषेण बध्यन्ते। कोर्थः ? विवशीक्रियन्ते पारतव्यं नीयन्ते योगद्वारेण प्रविशइशायां पुण्यपापरूपतया परिणम्य प्रविष्टानि विशिष्टशत्त्या परिणमय्य भोग्यतया संबद्धानि क्रियन्ते इत्यर्थः । कानि ? कर्माणि कर्मत्वपरिणतपुरलद्रव्याणि । कस्य ? प्रकृतिविदुषः प्राक्तनकर्मानुभवतो जीवस्य । पूर्वार्जितकर्मदत्तफलं स्वीकुर्वत इत्यर्थः । प्रकृतिं विद्वान् वेदयमानो जीवः प्रकृतिविद्वांस्तस्य । परिणतिविशेषोत्र मोहरागद्वेषस्निग्धपरिणामः । मोहनीयकर्मोदयसंपादितो विकार इत्यर्थः । स एव जीवभावः कर्मपुद्गलानां विशिष्टशक्तिपरिणामेना. वस्थानस्य निमित्तत्वाद्वन्धस्यान्तरङ्गकारणं, जीवप्रदेशवर्तिकर्मस्कन्धानुप्रवेशलक्षणकर्मपुद्गलग्रहणस्य कारणत्वादहिरङ्गकारणं योगः। तद्विवक्षायां परिणतिविशेषेणेत्यस्य योग इत्यर्थो वाच्यो, मनोवाक्कायवर्गणालम्बनात्मप्रदेशपरिस्पन्दलक्षणस्य तस्यापि जीवविकारत्वाविशेषात् । एतेन बाह्यमन्तरंगं च बन्धकारणं व्याख्यातं प्रतिपत्तव्यम् । उक्तं च
जोगणिमित्तं गहणं जोगो मणवयणकायसंभूदो।
भावणिमित्तो बन्धो भावो रदिरायदोसमोहजुदो॥ यदि वा अथवा आम्नातः कथितः पूर्वाचायः। कोसौ ? स बन्धः । किं तत् ? कर्म। यत्किम् ? यन्नयति प्रापयति । कम् ? पुरुषं जीवम् । काम् ? स्ववशतां स्वस्य पारतच्यम् । भोक्तृतयाऽऽत्मना सह संबनातीत्यर्थः । एष कर्मस्वातत्र्यविवक्षायां बन्ध उक्तो द्विष्ठत्वात्तस्य । वा अथवा स बन्धो भवति । यः किं ? यः श्लेष उपश्लेषणम् । केषाम् ? प्रदेशानाम् । कयोः ? उभयोर्जीवकर्मस्कन्धयोः । कथम् ? मिथः परस्परम् । कर्मपुद्गलानां जीवप्रदेशवर्तिकर्मस्कन्धान् योगद्वारेणानुप्रविष्टानां कषाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org