________________
अनागारधर्मामृते
आदिर्यस्य सः । एवं पृथिव्यादिषट्कायहननषडिन्द्रियासंयमनभेदादविरति
दशधेत्यर्थः । तथा भवति प्रमादः । किम् ? मान्धमनुत्साहः । कस्याम् ? शुद्धौ । किंविशिष्टायाम् ? अष्टविधौ । अष्टौ विधयः प्रकारा यस्याः सैवम् । तथा वृषे धर्मे मांधं । किंविशिष्टे ? दशात्मनि उत्तमक्षमादिदशलक्षणे । उक्तं च
संज्वलनोकषायाणां यः स्यात्तीवोदयो यतेः। प्रमादः सोस्त्यनुत्साहो धयें शुद्ध्यष्टके तथा । तद्भेदाः पञ्चदश । यथाविकहा तहा कसाया इन्दिय णिहा य तह य पणओ य।
चदु चदु पण एगेगं होंति पमादा हु पण्णरसा॥ तथा भवति क्रोधादिः कषायवर्गः । किंविशिष्टः ? पञ्चविंशतितयः। क्रोधमानमायालोभाः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरण. संज्वलनविकल्पाः षोडश, हास्यरत्यरतिशोकभयजुगुप्सास्त्रीवेदपुंवेदनपुंसकवेदाश्च नव, इति पञ्चविंशत्यवयवः । कथं किल कषायाः षोडश प्रोक्ताः ? नो कषाया यतो नव । ईषनेदो न भेदः अतः कषायाः पञ्चविंशतिरित्यागमोत्तया । तथा भवति । कोसौ ? योग आत्मप्रदेशपरिस्पन्दलक्षणो मनोवाकायव्यापारः । कतिधा ? त्रिधा, कायकर्म वाकर्म मनःकर्म चेति । यदुपाधयो येषां मिथ्यादर्शनादिभावानवभेदानां विशेषा भवन्ति । के ते ? सूत्रोक्तास्तत्प्रदोषादयः। किंविशिष्टाः ? कलियुजः कलीन स्थित्यनुभागापेक्षया यथावं सूत्रोक्तानि ज्ञानावरणादीनि कर्माणि प्रकृतिप्रदेशापेक्षया च सर्वाणि युञ्जन्ति जीवेन सहैकत्वपरिणति नयन्तीति कलियुजः मिथ्यादर्शनादयश्च समस्ता व्यस्ताश्चैतेषां भेदाश्च समस्ता व्यस्ता बन्धहेतवः । तथाहि ।
प्रथमतृतीयगुणस्थानयोः पञ्चापि । सासादनासंयतसदृष्ट्योश्चत्वारस्तयोमिथ्यात्वाभावात् । संयतासंयतप्रमत्तसंयतयोस्त्रयो मिथ्यात्वाविरत्यभावात् । अप्रमत्तादिसूक्ष्मसाम्परायान्तेषु . कषायायोगौ। शान्तकषायादीनां योगः। भयोग्यबन्धकः । कषायान्ताः स्थित्यनुभागबन्धहेतवः । प्रकृतिप्रदेश. बन्धहेतुर्योगः।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org