SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। शुभाशुभभावौ द्रव्यपुण्यपापास्त्रवयोनिमित्तमात्रत्वेन कारणभूतत्वात् तदा. नवक्षणादूवं भावपुण्यपापास्रवौ वाच्यौ तनिमित्तौ च शुभाशुभकर्मपरिणामौ योगद्वारेण प्रविशतां पुद्गलानां द्रव्यपुण्यपापास्त्रवौ। इति तमेवोभयं भावात्रवं विस्तरेणाह-पृथगित्यादि । अकथि असावात्रवः । केन ? विस्तरेण । किम् ? पृथक् प्रत्येकम् । असग्मुखो मिथ्यादर्शनाविरतिप्रमादकषाययोगपञ्चकम् । वा अथवा विस्तरेणास्त्रवोऽकथि। किम् ? पृथक् तत्प्रदोषप्रष्ठः-"तत्प्रदोषनिन्हवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः” इत्यादिसूत्रकारक्रमोक्तः । असती अप्रशस्ता दृग् असदृग् मिथ्यादर्शनम् । असदृग् मुखे आदौ यस्याविरत्यादेः सोयमसदृग्मुखः । तयोर्ज्ञानदर्शनयोः प्रदोषस्तत्प्रदोषः । स प्रष्ठ आद्यो यस्यासौ तत्प्रदोषप्रष्ठः । उत अथवा मतः पूर्वाचारिष्टः । कोसौ ? स आत्रवः । किम् ? आस्रवणम् । केषाम् ? तेषां योगद्वारेण प्रविशतां ज्ञानावृत्यादियोग्यपुद्गलानाम् । आस्त्रवणमिति कोर्थः ? कर्मताप्तिः कर्मतया ज्ञानावरणादिकर्मभावे नाप्तिः परिणतिः । अत्रैष द्रव्यास्रवः पूर्वश्च भावानव इतिमन्तव्यम् । उक्तंच आसवदि जेण कम्मं परिणामेणप्पणो स विण्णेओ। भावासवो जिणुत्तो कम्मासवणं परो होदि ॥ भावास्रवभेदप्रतिपत्त्यर्थमाहमिथ्यादर्शनमुक्तलक्षणमसुभ्रंशादिकोऽसंयमः, शुद्धावष्टविधौ दशात्मनि वृषे मान्धं प्रमादस्तथा । क्रोधादिः किल पञ्चविंशतितयो योगस्त्रिधा चास्रवाः, पञ्चैते यदुपाधयः कलियुजस्ते तत्प्रदोषादयः॥ ३७॥ भवन्ति । के ? एते मिथ्यादर्शनादयः पञ्चास्रवभावा इत्यर्थः । भ. वति तावन्मिथ्यादर्शनम् । किंविशिष्टम् ? उक्तलक्षणं मिथ्यात्वकर्मपाके. नेत्यादिनोक्तं लक्षणं यस्य तत् । तथा भवत्यसंयमोऽविरतिः। किंविशिष्टः ? असुभ्रंशादिकः। असूनां प्राणानां भ्रंशो व्यपरोपणमसुभ्रंशो हिंसा । स Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy