________________
१०८
अनगारधर्मामृते
नोत्पाद्यमानः सुखदुःखपरिणामः । तथा चेतयन्ते । के ? अस्तप्राणित्वाः प्राणित्वमतिक्रान्ता जीवाः । किम् ? ज्ञानमेव । ते हि व्यवहारेण जीव. न्मुक्ताः परमार्थेन परममुक्ताश्च । मुक्ता एव हि निर्जीर्णकर्मफलत्वादत्यन्तकृतकृत्यत्वाञ्च स्वतोऽव्यतिरिक्तस्वाभाविकसुखं ज्ञानमेव चेतयन्ते । जीवन्मुक्तास्तु मुख्यभावेन ज्ञानं गौणतया त्वन्यदपि । ज्ञानादन्यत्रेदमहमिति चेतनं झज्ञानचेतना। सा द्विविधा कर्मचेतना कर्मफलचेतना च। तत्र ज्ञानादन्यत्रेदमहं करोमीति चेतनं कर्मचेतना । ज्ञानादन्यत्रेदं चेतयेहमिति चेतनं कर्मफलचेतना । सा चोभय्यपि जीवन्मुक्ते गौणी । बुद्धिपूर्वककर्तृत्वभोक्तृत्वयोरुच्छेदात् ।
अथास्रवतत्त्वं व्याचष्टेज्ञानावृत्त्यादियोग्याः सहगधिकरणा येन भावेन पुंसः, शस्ताशस्तेन कर्मप्रकृतिपरिणतिं पुद्गला ह्यास्रवन्ति ।। आगच्छन्त्यास्रवोसावकथि पृथगसदृग्मुखस्तत्प्रदोष,प्रष्ठो वा विस्तरेणास्रवणमुत मतः कर्मताप्तिः स तेषाम् ॥३६॥
अस्यानुप्रेक्षाप्रकरणोक्त-युक्ते चित्तप्रसत्येत्यादिश्लोकस्य चैकवाक्यतया सं. बन्धः कर्तव्यः। अकथि कथितः पूर्वाचार्यैः । कोसौ ? असौ शुभोऽशुभशात्मपरिणामः । किम् ? आस्रवः । येन किम् ? येन पुंसो जीवस्य भावेन परिणामेन शस्ताशस्तेन शुभेनाशुभेन च आस्रवन्ति आगच्छन्ति । के ? पुद्गलाः कर्मवर्गणारूपा योगद्वारेण प्रविशन्तः । काम् ? कर्मप्रकृतिपरिणति ज्ञानावरणादिकर्मस्वभावेन पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणं परिणमनम् । कथम् ? हि स्फुटम् । किंविशिष्टाः ? ज्ञानावृत्त्यादियोग्या ज्ञानावरणादिकर्मसमर्थाः। पुनः किंविशिष्टाः ? सहगधिकरणा जीवेन सह समानस्थानाः । उक्तं च
अत्ता कुणदि सहावं तत्थगदा पुग्गला सहावेहिं । गच्छंति कम्मभावं अण्णोण्णा गाढमवगाढा ॥ शस्तेन युक्तोऽशस्तः शस्ताशस्तः । तेन । शुभेनाशुभेन चेत्यर्थः । पृथगिति योजनात् । तत्र शुभः प्रशस्तरागादिरशुभः संज्ञादिः । तावेतौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org