________________
द्वितीयोऽध्यायः ।
१०७
चेद्यदि चार्वाकैः कल्प्यते । किं तत् ? क्ष्मादि पृथिव्यादि भूतचतुष्टयं किम् ? उपादानमुपादानकारणम् । कस्याः ? चितश्चेतनायाः । तदा किमियते चार्वाकैः ? किम् ? सहकारि बहिरङ्गकारणं, तदन्तरेण क्ष्माद्युपादानादेव चेतनालक्षणकार्योत्पत्यनुपपत्तेः सकलकार्याणामन्तरङ्गबहिरङ्गकारणकलापाधीनजन्मत्वात् । चेत् कल्प्यते । किं तत् ? तत्सहकारि किम् ? तत्त्वान्तरं पृथिव्यादिचतुष्टयादन्यत् । तर्हि व स्यात् ? न क्वापि । कोसौ ? सः । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदये शरीरेन्द्रियविषयसंज्ञाः इति चार्वाक सिद्धान्ते प्रसिद्धस्तस्वचतुष्क नियमः ।
و
का चेतनेत्याह
अन्वितमहमहमिकया प्रतिनियतार्थावभासिबोधेषु । प्रतिभासमानमखिलैर्यद्रूपं वेद्यते सदा सा चित् ॥ ३४ ॥
सा चित् चेतनोच्यते । यत्किम् ? यद्रूपमाकारो वेद्यते स्वयमनुभूयते । कदा ? सदा । कैः ? अखिलैः समस्तैश्छद्म स्थैर्जीवैः । किं कुर्वाणम् ? प्रतिभासमानमात्मानं दर्शयत् । कया ? अहमहमिकया = य एवाहं पूर्वं घटमद्राक्षं स एवाहमिदानीं पटं पश्यामीत्यादिपूर्वोत्तराकारपरामर्शरूपया संविया । किंविशिष्टम् ? अन्वितमनुस्यूतम् । केषु ? प्रतीत्यादिप्रतिनियतार्थान् यथास्वमिन्द्रियग्रहणयोग्यान् घटपटादीनवभासयन्ति तच्छीलाः प्रतिनियतार्थावभासिनः । ते च ते बोधाश्च ज्ञानानि तेषु सा च कर्मफलकार्यज्ञानचेतनाभेदात् त्रेधा ।
यद्येवं तर्हि कः किं प्राधान्येन चेतयते इत्याह
सर्वे कर्मफलं मुख्यभावेन स्थावरास्त्रसाः । सकार्य चेतयन्तेऽस्तप्राणित्वा ज्ञानमेव च ॥ ३५ ॥ चेतयन्तेऽनुभवन्ति । के ? सर्वे स्थावरा एकेन्द्रिया जीवाः पृथिवीकायिकादयः । किं तत् ? कर्मफलं सुखदुःखम् । केन ? मुख्यभावेन । तथा चेतयन्ते । के ? सा द्वीन्द्रियादयः । किं तत् ? कर्मफलम् । किं विशि. ष्टम् ? सकार्यम् । क्रियते इति कार्य कर्म । बुद्धिपूर्वो व्यापार इत्यर्थः । तेन सहितम् । कार्यचेतना हि प्रवृत्तिनिवृत्तिकारणभूतक्रियाप्राधान्ये
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org