________________
१०६
अनगारधर्मामृते
भवति । कोसौ ? आत्मा । किंविशिष्टः ? स्वदेहप्रमितिः । कस्मात् ? सतः। यतः किम् ? यतः संवेद्यते निर्बाधमनुभूयते । कोसौ ? स्वात्मा निजजीवः । कैः ? सर्वैः । किंविशिष्टः ? ज्ञानसुखादिमान् । ज्ञानदर्शनादिभिर्गुणैः सुखदुःखादिभिश्च पर्यायैः परिणतः । कया ? स्वसं. वित्या स्वसंवेदनप्रत्यक्षेण । क्व ? स्वाङ्ग एव, न परशरीरे नाप्यन्तराले । स्वाङ्गेपि सर्वत्रैव तिलेषु तैलमित्यादिवदभिव्यापकाधारस्य विवक्षितत्वात् । प्रयोगः-देवदत्तात्मा तदेहे एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यमानत्वात् । यो यत्रैव यत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्रैव च विद्यते । यथा देवदत्तगृहे एव तत्र सर्वत्रैव चोपलभ्यमानः स्वासाधारणभासुरवादिगुणः प्रदीपः । तथा चायं, तस्मात्तथेति । तदसाधारणगुणा ज्ञानदर्शनसुखवीर्यलक्षणाः । ते च सर्वाङ्गीणास्तत्रैव चोपलभ्यन्ते । तस्मा. दात्मा स्वदेहप्रमितिरेव स्थितः ।
देहे देहे भिन्नो जीव इति दर्शयतियदैवैकोश्नुते जन्म जरां मृत्यु सुखादि वा। तदैवान्योऽन्यदित्यङ्ग्या भिन्नाः प्रत्यङ्गमङ्गिनः॥ ३२ ॥
अङ्ग्या बोध्याः परीक्षकैः । के ? अङ्गिनो जीवाः । किंविशिष्टाः ? भिनाः पृथग्भूताः । कथम् ? प्रत्यङ्गम् अङ्गमङ्गं प्रति । कथम् ? इति यतः । यदैव यस्मिन्नेव कालेऽश्नुते प्राप्नोति । कोसौ? एकः पुमान् । किं तत् ? जन्म जरां मृत्यु सुखादि वा तदैव तस्मिन्नेव कालेऽन्यः पुरुषोऽश्नुते । किं तत् ? अन्यत्-जरादि जन्मादि च । यदा ह्येको जायते तदैवान्यो जीर्यति म्रियते वा । यदैवैको जीर्यति म्रियते वा तदैवान्यो जायते । तथा यदैकः सुखमैश्वर्यादिकं वानुभवति तदैवान्यो दुःखं दौर्गत्यादिकं वानुभवति । इति जगद्वैचित्री कस्य न वास्तवी निराबाधबोधे प्रतिभासते।
चार्वाकं प्रति जीवस्य पृथिव्यादिभूतकार्यतां प्रतिषेधतिचितश्चेत् क्ष्माधुपादानं सहकारि किमिष्यते । . तच्चेत् तत्त्वान्तरं तत्त्वचतुष्कनियमः क सः॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org