________________
द्वितीयोऽध्यायः ।
१०५
भवति पुमान् । किंविशिष्टः ?. स्यान्मूर्तः कथंचिद्रूपादिमान् । कर्मणा सहान्योन्यप्रदेशानुप्रवेशलक्षणामेकत्वपरिणतिमापनो जीवो व्यवहारेण मूर्त इत्युच्यते इत्यर्थः । अतश्च कथंचिन्मूर्तत्वादेव एति गच्छति । कोसौ ? पुमान् । कम् ? बन्धं कर्मपुद्गलैः सह संश्लेषम् । आत्मनो मूर्तत्वे युक्तिमाहविद्युदाद्यैः प्रतिभयहेतुभिः प्रतिहन्यते ।
यच्चाभिभूयते मद्यप्रायमूर्तस्तदङ्गभाक् ॥ २९ ॥ तत् तस्माद्भवति । कोसौ ? अङ्गभाक् । अङ्गं शरीरं भजत्यात्मीयात्म. भावेनाध्यवस्यतीत्यङ्गभागू जीवः । किंविशिष्टः ? मूर्तः। यद्यस्मात् प्रतिहन्यते निरुद्धग्रसरः क्रियते जीवः । कैः ? प्रतिभयहेतुभिः अतर्कितोपस्थितत्रासकारणैः । किंविशिष्टैः ? विधुदाद्यैः तडिन्मेघगर्जिताशनिपातादिभिः । यतशाभिभूयते व्याहतसामर्थ्यः क्रियते जीवः । कैः ? मद्यप्रायैर्मदिरामदनको. द्रवविषधत्तूरकादिभिः। कर्मणो मूर्तत्वे प्रमाणमाह
यदाविषवन्मूर्तसंबन्धेनानुभूयते ।
यथाखं कर्मणः पुंसा फलं तत्कर्म मूर्तिमत् ॥ ३०॥ तत् तस्माद्भवति । किं तत् ? कर्म । किंविशिष्टम् ? मूर्तिमद् मूर्तम् । यद्यमादनुभूयते भुज्यते । किं तत् ? फलं सुखदुःखहेतुरिन्द्रियविषयः । कस्य ? कर्मणः । केन ? पुंसा जीवेन । कथम् ? यथास्वं यथायथम् । केन ? मूर्तसंबन्धेन । किंवत् ? आखुविषवत् । प्रयोगः, कर्म मूर्त, मूर्तसंबन्धेनानुभूयमानफलत्वादानुविषवत् । आखुविषपक्षे फलं शरीरे मूषकाकारशोफरूपो विकारः। जीवस्य स्वोपात्तशरीरपरिमाणत्वं साधयति
स्वाङ्ग एव खसंविच्या स्वात्मा ज्ञानसुखादिमान् । यतः संवेद्यते सर्वैः स्वदेहप्रमितिस्ततः ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org