________________
१०४
अनगारधर्मामृते
सहकारिकारणमन्तरेणैव । तत् ततो नो किंचित्करोति नित्यं वस्तु । क ? परतो द्वितीयादिक्षणेषु । कस्मात् ? अखिलार्थोत्पादनात् सकलस्वकार्यकरणात् । क ? प्राक्क्षणे प्रथमक्षण एव । अथैवमुच्यते सहकार्यपेक्षमेव तत्स्वकार्य कुर्यात् इत्यत्राह, परीत्यादि । भवेत् । किंतत् ? नित्यं वस्तु । किंविशिष्टं ? परिणाम्येवोत्पादव्ययध्रौव्यैकत्वलक्षणवृत्तियुक्तमेव । किंविशिष्टं सत् ? अन्यकांक्षं स्वकार्यकरणे सहकार्यपेक्षमन्यथा तदघटनात् । यत एवं तत्तसान भवति । किं तत् ? एतमित्यं वस्तु । किंविशिष्टं ? अर्थकृत् । केन ? क्रमतः कालक्रमेण । तर्हि योगपयेन तत्स्वकार्य करिष्यतीत्यबाह-न युगपदिति। न भवति । किं तत् ? नित्यम् । किंविशिष्टम् ? अर्थकृत् । कथम् ? युगपदेकक्षणे एव । कुतः ? सकृत्सर्वोद्भवाः सर्वेषां कार्याणां युगपदुत्पत्तिप्रसङ्गात् । अत्राह बौद्धः-मा करोतु नित्यमर्थक्रियाम् क्षणिकं तु करिष्यतीति । अत्राह-नेत्यादि । न भवति तावत् क्षणिकमेकक्षणस्थायि वस्तु । किंविशिष्टम् ? अर्थकृत् । कथम् ? सह युग. पदक्रमेणेत्यर्थः । कस्मात् ? अतश्च सकृत्सर्वोअवालेरेव । क एवमाह क्षणिकमक्रमेणार्थकृत् । किं तर्हि ? क्रमेणैव तत् तथा स्यात् । अत्राह-अहो आश्चर्य, कः स्यात्क्रमः ? न कोपि । देशक्रमः कालक्रमो वा न स्यादित्यर्थः । क? इह क्षणिके। किंविशिष्टे ? अव्यापिनि कालान्तरे देशान्तरे वाऽननुवर्तिनि । यदाहुः
“यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोाप्तिर्भावानामिह विद्यते ॥” इति । जीवस्य कथंचिन्मूर्तत्वानुवादपुरःसरं कर्मबन्धं समर्थयते
स्वतोऽमूर्तोपि मूर्तेन यद्गतः कर्मणैकताम् ।
पुमाननादिसंतत्या स्यान्मूर्तो बन्धमेत्यतः ॥ २८ ॥ यद्यस्माद्गतः प्राप्तः। कोसौ ? पुमान् जीवः । काम् ? एकतां क्षीरनीरवदेकलोलीभावम् । कथम् ? सह । केन ? कर्मणा । किंविशिष्टेन ? मूर्तेन पौगालिकेन । कया ? अनादिसंतत्या । बीजाङ्कुरवदनादिकालसंतानेन । किंविशिष्टोपि ? अमूर्तोपि रूपादिरहितोपि । केन ? स्वतः स्वरूपेण । अतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org