________________
४ : सिद्धस्तवनम् नाथ ! मयि कुरु करुणादृष्टि, दर्शयानन्दमयीं सृष्टिम् ॥ जगति परितोऽपि भाति कष्टं, क्वापि नानन्दपदं दृष्टम् । मोहमणिमारुणिमाकृष्टं, मानसं मुग्धमिदं स्पष्टम् । परमेश्वरपरमौषधं, शान्तिमयं प्रविदाय, संहर संहर मोहरुजं मे, प्रयते तेन हिताय, आयती प्रणये तव सृष्टिम् ॥१॥ शमथपोयूषरसं पीत्वा, वासनां विषययुतां हित्वा । नन्दनां चिद्रूपां नीत्वा, मोहरिपुमेव झटिति जित्वा । वीतरागपदमुज्ज्वलं,
स्वात्मगुणौज्ज्वल्येन, केवलकमलाललितं कलितं, शुक्लध्यानबलेन । येन तत्रैसि सदा हुष्टिम् ॥२॥ यत्र नो जन्मजरामरणं, नो भयं नैव शोककरणम् । विद्यते किञ्चिन्नावरणं, लोक्यते निखिलजनाचरणम् । तत्तव मन्दिरमद्भुतं, द्रष्टुं लोलुप एव, लौकिकसदननिभालनसुहितो, धृत्वाहं स्वयमेव, देव ! तव नाममयीं यष्टिम् ॥३॥ अक्षयं विगतरुजं स्थानं, ज्योतिरुज्ज्वलितं ह्यम्लानम् । किन्तु नो सन्निहितं यानं, स्याद् यतो मे हि तन यानम् । उन्नतशाखामाश्रितस्तव
करुणोविरुहस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org