SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ मनोबलं प्रवर्धते १. बहिस्तनानि द्रव्याणि, मित्त्वा चान्तर्दशा स्वयम् । जीवनं पश्यतो नित्यं, मनोबलं प्रवर्धते ।। २. मन्दं मन्दं श्वसन योऽस्ति, सोहमित्यात्तभावनः । परात्मानुभवस्तस्य, मनोबलं प्रवर्धते ॥ ३. यस्मिन् प्रवर्तते वायुः, चित्तं तत्रैव वर्तते । शरीर-मनसोरैक्ये, मनोबलं प्रवर्धते ।। शिथिलीकरणं साधु, जागरूकत्वसंयुतम् । नित्यमभ्यस्यतो नूनं, मनोबलं प्रवर्धते ॥ ५. आहारे वर्जयन् नित्यं, अपोषण-कुपोषणे । शरीरं वाहयेत् तस्य, मनोबलं प्रवर्धते ।। ६. संयतं चापि निद्राति, जागर्ति चापि संयतम् । सततं यतमानस्य, मनोबलं प्रवर्धते ।। ७. एकत्वानुभवो दीर्घ, एकान्ते वासमिच्छतः । अव्यस्तानुभवस्तस्य, मनोबलं प्रवर्धते ।। ८. शब्दादिविषये तावद, इन्द्रियाणामगोचरे । चित्तं प्रवर्तते तस्य, मनोबलं प्रवर्धते ।। ६. ऊर्जाकेन्द्रे कृतध्यानः, सूर्यातपं च प्राणशक्तेः प्रकर्षेण, मनोबलं सेवते । प्रवर्धते ।। नियत्यां पुरुषार्थेऽपि, चिन्तने चाप्यचिन्तने । विश्वासो वर्तते तस्य, मनोबलं प्रवर्धते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003058
Book TitleEkla Chalo Re
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherTulsi Adhyatma Nidam Prakashan
Publication Year1985
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy