________________
श्रीगौतमीयकाव्यं
ऽर्कमण्डलं सूर्यबिम्बमिव नभोगतमाकाशं प्राप्तं पुनः स्फुरन्ती सर्वतः संचरन्ती महाप्रभा यस्य तत् तथोक्तम् ॥ १०॥ ३ एवंविधं चक्रं धर्मचक्र जयाय जयाथ धर्मचक्रिणः श्रीवीरप्रभोः अग्रतश्चचाल अग्रे चलति स्म । तदा तस्य चक्रस्येदं तदीयं यद्रोचिज्योतिस्तेन निशा रात्रिरपि दिवस्य दिवसस्य स्वरूपं आदधे धारयति ६ स । तत्प्रकाशेन हि भगवद्विहाररात्रिदिवसपायाऽभूदित्यर्थः । मणीति । मणीशब्दस्य पुंस्त्रीलिङ्गत्वात्कृदिकारादिति स्त्रियां पाक्षिको ङीप् । धर्मेत्यादि । धर्मचक्रमस्यास्तीति मत्वर्थे इनिः । धर्मचक्री ९ तस्य । दिवेति । दिवशब्दोऽदन्तः । आदधे इति । आपूर्वाद्धात्रः कतरि लिट् ॥ ११ ॥
ततोऽनुकूलमारुतेरितस्फुरत्पताकया। १२ प्रभोः पथा चलन्तु भोयिति प्रणोदयन्निव ॥१२॥
ध्वजोऽन्तरिक्षगोऽचलत् सहस्रयोजनोच्छ्रितः।
सुरा हि यस्य वाहकाः कथं महिनि संशयः॥ १३॥-युग्मम् । १५ ततस्तदनन्तरं अन्तरिक्षमाकाशं गच्छति प्राप्नोतीत्यन्तरिक्षगो
नभस्थस्तथा सहस्रयोजनानि उच्छ्रित उच्चोऽनेकपताकापरिमण्डितो रत्नमयो ध्वजः प्रभोः पुरोऽचलत् । किं कुर्वन्निव । अनुकूलोऽनुलोमो १८ यो मारुतो वायुस्तेन ईरिता कम्पिताऽत एव स्फुरन्ती इतस्ततः
संचरन्ती या पताका तया भो लोकाः ! प्रभोः पथा प्रभूपदिष्टमार्गेण
चलन्तु इति प्रणोदयन् प्रेरयन्निव भव्यलोकानिति शेषः । युक्तोऽय२१मर्थः-हि यतः कारणात् यस्य ध्वजस्य सुरा देवा वाहकाः प्रापकाः
तस्य महिन्नि महत्त्वे कथं केन प्रकारेण संशयः सन्देहः? न कथम२३ पीत्यर्थः । इह पताकानां बहुत्वेऽपि पताकयेति जातावेकवचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org