SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ६७ भोयिति । 'भोभगोअघोअपूर्वस्य योऽशि' (८॥३॥१७) इति रो रि' (८।३।१४) आदेशे 'लोपः शाकल्यस्य' (८।३।१९) इत्यस्य वैकल्पिकत्वान्न यलोपः ॥ १२ ॥ १३ ॥ विचित्ररत्नमण्डितं ततो हिरण्मयासनम् । श्रमापनोदनक्षणे यदाश्रयेत तीर्थराट् ॥ १४ ॥ सपादपीठमम्बरे सुरांसगं चचाल तत् । इवाध्वनि सुधाभुजामखण्डचन्द्रमण्डलम् ॥ १५ ॥-युग्मम् । ततस्तदनन्तरं श्रमस्य खेदस्याऽपनोदनं दूरीकरणं तस्य क्षणे प्रस्तावे यत् सिंहासनं तीर्थराट् श्रीवीरतीर्थराज आश्रयेत आरोहेत् , उप-९ विशेदिति यावत् । तद्विचित्रैरनेकविधै रतैर्मण्डितं खचितं सपादपीठं पादपीठेन सह वर्तमानं सुराणामसेषु स्कन्धेषु गच्छतीति सुरांऽसगं एवंविधं हिरण्मयासनं वर्णसिंहासनं अम्बरे आकाशे चचाल तत् १२ सिंहासनं किमिव सुधाभुजां देवानामध्वनि मार्गेऽखण्डं चन्द्रमण्डलमिव । प्रकाशकत्वादिति भावः । हिरण्मयेत्यादि । हिरण्यस्य विकारो हिरण्मयं 'दाण्डिनायन-' (६।४।१७४) इत्यादिसूत्रेण १५ निपातनाद्यलोपः । 'स्वर्ण हेम हिरण्यहाटके'त्यादि हैमः । हिरण्मयं च तदासनं चेति विग्रहः । सपादपीठमिति । 'पादपीठं पदासन'मिति हैमः। सुरांसेत्यादि। अंसो भुजशिरःस्कंध' इति हैमः॥ १८ तदुद्वहन्त ऐश्वरासनं सुरा यथाक्रमम् । परस्परार्थनापरा निजान् भुजानपीपवन् ॥ १६ ॥ . परस्परेभ्योऽर्थना प्रार्थना परस्परार्थना तस्यां परास्तत्पराः सुरा देवाः तत्पूर्ववर्णितं ईश्वरस्य भगवत इदं ऐश्वरं आसनं सिंहासनमुद्र-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy