________________
६४
श्रीगौतमीयकाव्यं
हन्तः सन्तो यथाक्रममनुक्रमेण निजान् भुजान् अपीपवन् पावयन्ति
स। पवित्रीकुर्वन्ति स्मेति यावत् । अपीपवनिति । हेतुमण्णिजन्तात् ३ 'पूङ्ग पवने' धातोर्लङ् । 'ओः पुयण ज्यपरे' (७/४८०) इति अभ्यासोकारस्येत्वं, ततो दीर्घः ॥ १६ ॥ प्रलम्बमानमौक्तिकावलीकलापमालितम् । ६ इवेन्दुबिम्बमास्रवत्सुधासुबिन्दुसुन्दरम् ॥ १७ ॥ विजृम्भमाणमालतीविशालमालिकार्चितम् । ध्वनद्विरेफझकृतिप्रकाशितश्रि दूरतः॥१८॥ ९ सुरत्नदण्डमण्डितं विहायसि प्रभासितम् । उपर्युपर्यधीश्वरं त्रिधातपत्रमस्फुरत् ॥ १९ ॥-त्रिभिर्विशेषकम् ।
विहायसि आकाशेऽधीश्वरमुपर्युपरि अधीश्वरस्य भगवत उपरि. १२ ष्टात्समीपदेशे त्रिधाऽतपत्रं भुवनत्रयखामित्वसूचनात्रिविधं छत्रं, छत्र
त्रयमित्यर्थः । अस्फुरत् चलति स्म। कीदृशं तदित्याह-प्रलम्बन माना या मौक्तिकावल्यो मुक्ताफलमालास्तासां कलापैः समूहैर्मालितं १५युक्तं अत एव सुन्दरं रम्यम् । किमिव । आस्रवन्तः क्षरन्तः सुधाया
अमृतस्य सुष्ठु शोभना बिन्दवो यस्य तत्तथोक्तं इन्दुबिम्बं चन्द्रमण्डलमिव यथैतत्सुन्दरं भवति तथा तदित्यर्थः । पुनः कीदृशम् । १०विजृम्भमाणा विकसन्ती या मालती जातिलता तस्याः पुष्परूपा या विशाला विस्तीर्णा या मालिका मालास्ताभिरर्चितं पूजितं शोभित. मित्यर्थः । पुनर्दूरतो ध्वनन्तो ध्वनि कुर्वाणा ये द्विरेफाः भ्रमरास्तेषां २१ झकृतिहङ्कारशब्दस्तया प्रकाशिता प्रादुष्कृता श्रीः शोभा यस्य तत्त.
थोक्तं पुनः सुष्टु शोभनानि यानि रनानि तेषां दण्डेन मण्डितं तथा २३ प्रभासितं दीप्तिमन्तम् , यद्वा प्रभया दीप्त्या सितमुज्ज्वलं श्वेतदीप्तिमन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org