________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ६९ मित्यर्थः । प्रकाशितश्रीति । नपुंसकत्वाद् ह्रखत्वम् । विहायसीति । 'विहाय आकाशमनन्तपुष्करे' इति हैमः । सितमिति । श्वेतः श्येतः सितः शुक्ल' इति हैमः । उपर्युपरीत्यादि । 'उपर्यध्यधसः सामीप्ये' ३. (८।१७) इति द्वित्वम् । तद्योगे 'उभसर्वतसोः(वा०) इत्यादिना द्वितीया । आतपत्रमिति । आतपात्रायते इति विग्रहः । अस्फुरदिति । 'स्फुर चलने' अस्मात्कर्तरि लिङ् ॥ १७-१९॥ ६
चतुर्दिशासु चामरावली ततोऽप्यनोदिता।।
उदच्छलत्सुराननोच्छलजयारवैः समम् ॥ २०॥ ततस्तदनन्तरं सुराणां देवानामाननेभ्यो मुखेभ्य उच्छलन्त ९ उत्प्रादुर्भवन्तो ये जयारवा जयशब्दास्तैः समं सार्द्ध अनोदिताऽप्रेरितापि चामराणामावली श्रेणिः चतुर्दिशासु प्रभोश्चतुर्दिक्षु उच्छलत् उच्छलति म उत्पतति स्मेति यावत् । चतुर्दिशाखिति । चतस्रश्च १२ ता दिशाश्चेति विग्रहः । 'आपं चैव हलन्तानाम्' इति वचनादिशेत्यत्राप् ॥ २० ॥
अतो घनं मरुत्पथे विकुळ मेघमालिनः। १५ जलच्छटाभिरार्द्रयांबभूवुरध्वमेदिनीम् ॥ २१॥ अतो अनन्तरं मेघमालिनो देवा मरुत्पथे आकाशे घनं मेघं विकुळ विरच्य अध्वमेदिनी भगवद्विहारमार्गपृथ्वीं जलच्छटाभिः १८ आर्द्रयांबभूवुराद्रीचक्रुः । मरुत्पथे इति । 'अनं सुराम्रोडुमरुस्पथोऽम्बर'मिति हैमः । विकुयेति । सामयिकघातुप्रयोगः । आर्द्रयामिति । करोत्यर्थणिजन्तादाम् ॥ २१॥ ...
दिशः प्रसादमासदनिशाऽप्यभून्महोजवला । विमोचितेत्यनीतिभिर्द्धराप्युदश्वसीत्सुखम् ॥ २२ ॥ २३
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org