________________
श्री गौतमीयकाव्यं
पुनस्तदा दिशः सर्वा अपि प्रसादं प्रसन्नत्वं निर्मलत्वमिति यावत् आसदन् प्राप्नुवन्ति स्म । तथा निशा रात्रिरपि महोज्ज्वलाऽभूत् तथा ३. पुनर्द्धरा पृथ्वी अपि भगवताऽनीतिभिरन्यायैमचिता इति हेतोः सुखं यथा स्यात्तथाऽश्वसीत् श्वासं धृतवती । आसदन्निति । आइपूर्वात् 'षट्ट' धातोर्लुङि लित्त्वात् च्लेश्वइ । अश्वसीदित्यत्र 'ह्वयन्तक्षण - ' ६ (७/२/५ ) इत्यादिना न वृद्धिः ॥ २२ ॥ सुकृतपुष्पवादलानभस्तलाच्च विच्युतैः । सुगन्धिभिः सुमोत्करैः सुरा महीं प्रतस्तरुः ॥ २३ ॥ च पुनस्तदा सुरा देवाः सुक्लृप्तानि सुनिर्मितानि पुष्पवार्दलानि पुष्पवर्षणाभ्राणि यत्र तत् तस्मान्नभस्तलादाऽऽकाशात् विच्युतैः पतितैस्तथा सुष्ठु गन्धो येषु ते सुगन्धयस्तैः सुमानां पुष्पाणामुत्करैः समू१२ हैर्महीं पृथ्वीं प्रतस्तरुः आच्छादयामासुः । सुगन्धिभिरिति । 'गन्धस्येदुत्पूति - ' ( ५|४| १३५ ) इत्यादिना समासान्त इकारः । सुमेति । 'प्रसूनं कुसुमं सुम' मित्यमरः । प्रतस्तरुरिति । ' स्तृञ १५. आच्छादने' अस्मात्पूर्वाल्लिट् ॥ २३ ॥
स्थिरा अपि द्रुमा जलाशयाः सुमैश्च शीकरैः । तदानुयायिवायुनोपचेरुरर्च्यमीश्वरम् ॥ २४ ॥
तदा तस्मिन्नवसरे स्थिरा अपि द्रुमा वृक्षास्तथा जलाशया जलाss • धारास्तडागादयः अनुयायी अनुकूलो यो वायुः पवनस्तेन, प्रेरितैरिति शेषः । सुमैः पुष्पैश्च पुनः शीकरैर्जलकणैरर्च्य त्रिजगत्पूज्यमीश्वरं भगवन्तमुपचेरुराराधयामासुः । भगवद्भक्तौ तत्परा बभूवुरित्यर्थः । २१ द्रुमाः सुमैः जलाशयाश्च शीकरैरिति क्रमेण योज्यम् । स्थिरा अपीति । १ 'सुकृत्य " इति काशीमुद्रित पाठश्चिन्त्यः ।
૧૮
Jain Education International For Private & Personal Use Only www.jainelibrary.org