________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
७१
जङ्गमा मनुष्यादयस्तु भगवदुपकण्ठमागत्य भक्तिं कुर्वन्त्येवेत्यपि - शब्दार्थः । शीकरैरिति । 'वाताऽस्तं वारि शीकरः' इति हैमः । उपचैरुरिति । कर्त्तरि लिट् । अत्रोपपूर्वस्य चरधातोर्भक्तिरर्थः । 'शुश्रूषा - ३ राघनोपास्तिवरिवस्यापरीष्टयः । उपचारः' इति हैमकोशोक्तेः ॥ २४ ॥
पुरः स्थिता अपि द्रुमाः प्रणम्य रम्यमार्गगाः । विनिद्रपुष्प संहतीरभिप्रभुं डुढौकिरे ॥ २५ ॥
पुनस्तदा रम्यं भगवद्विहारान्मनोहरमार्गं गच्छन्ति प्राप्नुवन्तीति रम्यमार्गगाः पुरोऽग्रे स्थिता द्रुमा अपि प्रणम्य प्रभुं नमस्कृत्य अभिप्रभुं प्रभोरभिमुखं विनिद्राणां विकखराणां पुष्पाणां संहतीः समूहान् ९ डुढौकिरे ढौकन्ते स्म । प्राभृतीचक्रुरित्यर्थः । अभिप्रभुमिति । 'अभिरभागे' इति लक्षणेर्थेऽभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । डुढौकिरे इति । 'ढौ गतौ' कर्त्तरि लिट् ॥ २५ ॥
रविप्रभानुकारिणा खचारिचक्ररोचिषा ।
मृगाः प्रबोधिताः पथि प्रदक्षिणं प्रभोर्ययुः ।। २६ ।
१२
पथि प्रभोर्विहारमार्गे रवेः प्रभामनुकरोति तुलयति तच्छीलं रवि- १५ प्रभानुकारितेन सूर्यकिरणसदृशेन खचारिण आकाशगामिनश्चक्रस्य धर्मचक्रस्य रोचिषा किरणेन प्रबोधिताः प्रबोधं नीता विनिद्रीकृता मृगा हरिणाः प्रभोर्भगवतः प्रदक्षिणं पार्श्व ययुः । प्रदक्षिणगत्या १८ यान्ति स्मेत्यर्थः ॥ २६ ॥
तथैव वामपार्श्वतस्तरून्विहाय पत्रिणः ।
विधाय तोरणाकृतिं गतेर्ययुः प्रदक्षिणम् ॥ २७ ॥
१ 'पतत्रिणः' इति काशीमुद्रित पाठोऽयुक्तः, छन्दोभङ्गहान्यापातात् ।
२१
Jain Education International For Private & Personal Use Only www.jainelibrary.org