________________
तथैव तेनैव प्रकारेण पत्रं पिच्छमस्त्येषामिति पत्रिणः पक्षिणो मयूराद्या वामपार्श्वततरून् वृक्षान् विहाय त्यक्त्वा गतेः खकीयगम ३ नस्य तोरणाssकृतिं विधाय तोरणाssकृत्या गतिं कृत्वेत्यर्थः । प्रभोः प्रदक्षिणं पार्श्व ययुः । पत्रिण इति । 'पत्रं पत्रं पिच्छं वाजस्तनू - रुह' मिति हैमः ॥ २७ ॥
श्रीगौतमीयकाव्यं
१२
पुनस्तदा हे भगवन्, तव सिद्धिरस्ति इत्यद इत्येतत् पृष्ठतो ९ वचो देववचनं बभूव । तद्यथा – भो स्वामिन्, त्वं समेहि समागच्छ ते तव जयोऽस्ति इति पुरोऽग्रेऽपि गीर्देववाणी अभूत् ॥ २८ ॥ अनेकतूर्यनिःखनानुपातिकिन्नरखरैः ।
श्रवः सुखैकपात्रतामुवाह सर्वमम्बरम् ॥ २९ ॥ पुनस्तदा सर्वं अम्बरमाऽऽकाशं कर्तृ, अनेकानि यानि तूर्याणि वादित्राणि तेषां निःखना शब्दास्तान् अनुपतत्यऽनुसरति तच्छीला १५ ये किन्नराणां खरास्तैः श्रवसां श्रोत्राणां सुखस्य एकपात्रतामद्वितीयभाजनत्वं उवाह धारयामास । 'वह प्रापणे' अस्मात्कर्त्तरि लिट् ॥२९॥ सुगन्धिनीरसंस्कृता ससौरभाऽप्यभून्मही ।
जगत्पतेः समागतेरुपस्क्रियेत किं न हि १ ॥ ३० ॥ पुनस्तदा सुगन्धिनीरेण सुरभिजलेन संस्कृता संस्कारं नीता मही पृथ्वी अपि सह सौरभेण सौगन्ध्येन वर्त्तते इति ससौरभाऽभूत् । युक्तोऽयमर्थः -- हि यतो जगत्पतेर्भगवतः समागतेः समागमनात् किं २२ न उपस्क्रियेत ? सर्वमपि संस्क्रियेतेत्यर्थः, देवादिभिरिति शेषः ॥
૧૮
तवाऽस्ति सिद्धिरित्यदो वचो बभूव पृष्ठतः । समेहि भो जयोऽस्ति ते पुरोऽपि गीरभूदिति ॥ २८ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org