SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ७३ अत्रोपपूर्वात् कृञः कर्मणि लिट् । 'उपात्प्रतियत्न-' (६।१।१३९) इत्यादिना भूषणे सुट् ॥ ३० ॥ प्रतिप्रभु सुराङ्गनाऽवकीर्णमौक्तिकोत्कराः। ३ नमनभश्चरोडभिः सरूपतां प्रपेदिरे ॥ ३१ ॥ पुनस्तदा प्रभु प्रति सुराङ्गनाभिरवकीर्णा उच्छालिता ये मौक्तिकानामुत्कराः समूहास्ते नमन्तीव नमन्ति नम्रीभवन्ति यानि नभ-६ श्वराणि आकाशचारीणि उडूनि नक्षत्राणि तैः सरूपतां समानरूपतां प्रपेदिरे प्राप्तवन्तः उज्वलत्वाद्विकीर्णरूपत्वाच्च तत्तुल्या बभूवुरित्यर्थः । उडुभिरिति । 'तारकाप्युड वा स्त्रिया'मित्यमरः । प्रपेदिरे इति ।९ प्रपूर्वात् पदधातोः कर्तरि लिट् ॥ ३१ ॥ अधोगतानि कण्टकेप्सितान्यतः प्रभृत्यहो । अधोमुखास्तकण्टकाः पथीत्यवीविदन्निव ॥ ३२॥ १२ पुनर्भगवद्विहारसमये पथि मार्गेऽधो मुखं येषां तेऽधोमुखा अस्ताः क्षिप्ता ये कण्टका दुःखप्रदा बब्बूलादिवृक्षाऽवयवास्ते इति अवीविदन्निव इति ज्ञापयन्ति सेव । इतीति किं ? । अहो लोकाः, अतः १५ प्रभृति इत आरभ्य कण्टकानां कण्टकतुल्यदुष्टलोकानामीप्सितानि दुरध्यवसायरूपवाञ्छितानि अधोगतानि अदृश्यानि जातानीत्यर्थः । अवीविदनिति । हेतुमण्णिजन्ता द्विद ज्ञाने' अस्माल्लुङ् ॥ ३२ ॥ १८ जिनेन हेमपद्मयोः क्रमौ निधाय गच्छता। महादिसेनकाननस्थली सपद्यपूयत ॥ ३३ ॥ इत्थं विहाय मार्गे हेमपद्मयोः स्वर्णकमलयोरुपरि क्रमौ चरणौ निधाय स्थापयित्वा गच्छता विहारं कुर्वता जिनेन श्रीवीरपरमेश्वरेण २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy