________________
७४
श्रीगौतमीयकाव्यं
सपदि शीघ्रं महादिसेनकाननस्य महसेनवनस्य स्थली भूमिः अपूयत खचरणन्यासैः पवित्रीक्रियते स्म, तत्राऽजग्मे इति भावः । यद्यप्यत्र ३ हेम्नः पद्मद्वयमुक्तं तथापि नवपद्मानि बोध्यानि । क्रमाविति । 'पदोंऽहिश्चलनः क्रम' इति हैमः । महादीत्यादि । महशब्द आदि
यस्य तन्महादि, ततो द्विः कर्मधारयगर्भस्तत्पुरुषः । अपूयतेति । ६पूङः कर्मणि लङ् ॥ ३३ ॥
सुवर्णरत्नवप्रयोर्जिनालयेऽन्तरालगे।
न्यधायि निर्जरैरधो निजांससंस्थमासनम् ॥ ३४ ॥ ९ तदनन्तरं निर्जरैः सुरैर्निजांससंस्थं खस्कन्धस्थं आसनं सिंहासनं सुवर्णं च रत्नं च सुवर्णरत्ने तयोर्वप्रौ प्राकारौ तयोरन्तरालं गच्छ
तीति तस्मिन् अन्तरालगे मध्यस्थे जिनालये देवच्छन्दके अधो १२ न्यधायि अधः स्थाप्यते स्म । निपूर्वाद्धाञः कर्मणि लुङ् ॥ ३४ ॥
त्रिलोकनाथमन्दिरं तदा सुराऽसुरैर्वृतम् ।
रराज खेचरावलीप्रवेष्टिताद्रिराजवत् ॥ ३५॥ १५ तदा तस्मिन्नवसरे सुरासुरैर्वृतं वेष्टितं त्रिलोकनाथस्य भगवतो • मन्दिरं समवसरणं खेचराणां ज्योतिष्काणामावलीभिः श्रेणीभिः
प्रकर्षेण वेष्टितो योऽद्रिराजो मेरुगिरिस्तद्वत् रराज शोभते स्म । १०त्रिलोकेति । त्रिसङ्ख्यो लोकस्त्रिलोक इत्यादिविग्रहः । न तु समाहारे द्विगुः, तथात्वे 'द्विगोः' (४।१।२१) इति ङीप्प्रसङ्गात् ॥३५॥
अमण्डयंश्च ताण्डवं सुराः सुनृत्यपण्डिताः। २१ जगुश्च केपि गायनाः प्रभोश्चरित्रमाऽऽजने ॥ ३६॥
पुनस्तदा आ समन्ताजना लोका यत्र तदाजनं प्रस्तावात्समवसरणं २३ तस्मिन् सुष्ठु शोभनं यन्नृत्यं नर्तनं तत्र पण्डिता निपुणाः केऽपि सुराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org