SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ६५ तथा हे प्रभो! अनन्ता शक्तिर्यस्य सोऽनन्तशक्तिस्तस्मै अत एव जगज्जनोपकारिणे त्रैलोक्यलोकोपकारकरणशीलाय तुभ्यं नमोऽस्तु । पुनहें प्रभो ! अनन्ता ये भावाः पदार्था द्रव्यपर्यायादयस्तेषु प्रकाश-३ कत्वाद्भाखान् सूर्य इव अनन्तभावभाखान् तस्मै, तथा खयमात्मना परोपदेशव्यतिरेकेणैव भवतीति तीर्थप्रवर्तकः संबुद्धो वेति खयंभूस्तस्मै ते तुभ्यं नमोऽस्तु ॥ ८॥ इति प्रणूय किन्नरा जिनेशभक्तितत्पराः । सुमन्द्रमध्यतारकैः स्वरैः पुरो यशो जगुः ॥९॥ इतीत्थं प्रणूय स्तुत्वा तेषु देवेषु ये किन्नरा व्यन्तरविशेषा देवास्ते ९ जिनेशस्य भगवतो भक्तौ तत्पराः सन्तः सुष्टु शोभनैर्मन्द्रमध्यतारकैरुरःकण्ठशिरोभवैः खरैः षड्डादिभिः पुरः प्रभोरग्रे यशो भगवत्कीर्ति जगुर्गायन्ति स्म । प्रणूयेति । ‘णू स्तवे' अस्मात् क्त्वो ल्यप् । १२ सुमन्द्रेत्यादि । तारकैरित्यत्र खार्थे कप् । 'ते मन्द्रमध्यताराः स्युहरकण्ठशिरोभवाः' इति हैमः। 'तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गंभीरः' इति अथ भगवतो विहारसमयेऽग्रतः किं चचालेत्याहसहस्रसङ्ख्यकैररैर्विनिर्मितं मणीमयम् । इवार्कमण्डलं नभोगतं स्फुरन्महाप्रभम् ॥१०॥ १० जयाय धर्मचक्रिणश्चचाल चक्रमग्रतः। तदीयरोचिषा निशा दिवस्वरूपमादधे ॥११॥-युग्मम् । सहस्र सङ्ख्या येषां ते सहस्रसङ्ख्यास्त एव सहस्रसङ्ख्यकास्तररैश्चकाक्यवैर्विनिर्मितं रचितं पुनर्मणीनां विकारो मणीमयं रत्नमयं तथा-२२ ५ गौ० का० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy