________________
श्री गौतमीयकाव्यं
एवमग्रपि । हिः पादपूरण । प्रमायात । प्रपूवान्माङा ल्यपि 'न ल्यपि ' ( ६।४।६९ ) इतीत्वाभावः । दुदुवुरिति । 'दु गतौ' ३ अस्मात्कर्त्तरि लिट् ॥ ५॥
६४
ते चतुर्विधा देवा अञ्चितं त्रैलोक्यपूजितं जगत्प्रभुं श्रीवीर - जिनेश्वरं पुरा पूर्वं महन्महः प्रभा येषां तानि महामहांसि तैरति - ९ भाखरैर्लोचनैर्ने त्रैर्निपीय सादरं विलोक्य कृतं प्रदक्षिणात्रयं यैस्ते कृतप्रदक्षिणात्रयाः सन्तो भगवन्तं ववन्दिरे प्रणामपूर्वकं स्तुवन्ति स्म । निपीयेति । निपूर्वात् 'पी पाने' इति दैवादिकात् क्त्वो ल्यप् । १२ महोभिरिति । 'भा मयूखमहसी छविर्विभा' इति हैमः । ववन्दिरे इति । 'वदि अभिवादनस्तुत्योः' कर्त्तरि लिट् ॥ ६ ॥
कथं स्तुवन्ति स्मेत्यत आह
ततस्ते सुराः किं कृतवन्त इत्याह-पुरा निपीय लोचनैर्महामहोभिरश्चितम् । कृतप्रदक्षिणात्रया जगत्प्रभुं ववन्दिरे || ६ ||
१५
नमो नमोऽस्तु ते प्रभो पराऽऽत्मरूपधारिणे । नमो नमोऽस्तु ते प्रभो जगत्प्रकाशकारिणे ॥ ७ ॥ नमोऽस्त्वनन्तशक्तये जगजनोपकारिणे । अनन्तभावभास्वते नमोऽस्तु ते स्वयंभुवे ॥ ८ ॥ हे प्रभो ! परं प्रकृष्टं आत्मनः खस्य रूपं खभावं धारयति तच्छीलपराऽऽत्मरूपधारी तस्मै ते तुभ्यं नमोऽस्तु । भूयोऽस्माकं नमस्कारोऽस्त्वित्यर्थः । पुनर्हे प्रभो ! जगत्सु त्रैलोक्ये प्रकाशमुद्द्योतं करोतीति २२ तच्छीलो जगत्प्रकाशकारी तस्मै ते तुभ्यं नमो नमोऽस्तु ॥ ७ ॥
1
१८
Jain Education International For Private & Personal Use Only www.jainelibrary.org