SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ६३ यथा स्वशिष्यकान् गुरुः श्रुतं सहैव पाठयेत् । तथाऽपरान् सुरान कान् सघोषमन्वघोषयत् ॥ ३॥ यथा गुरुः पाठकः खशिष्यकान् निजलघुशिष्यान् सहैव श्रुतं ३ शास्त्रं पाठयेत् स्वयं पठन्नेव तान्पाठयेदित्यर्थः ॥ तथा स देवदुन्दुभिरऽपरान्कान् सुरान् घोषं शब्दं न अन्वघोषयत् नानूचारयति स्म । खयं नदन् सर्वानपि देवान् शब्दाकुलानकरोदित्यर्थः । शिष्यका-६ नित्यत्र हस्त्रार्थे कन् । अन्वघोषयदिति । 'घुष शब्दे' अस्माद्धेतुमण्णिजन्तात्कर्तरि लङ् । 'जल्पतिप्रभृतीनामुपसंख्यानम्' (वा.) इत्यनेनाणौ कर्तुंर्णी कर्मत्वम् ॥ ३ ॥ तदा किं जातमित्याहतदा रसातलाधिगा मनुष्यलोकगा अपि । तदूर्द्धगाश्च खेचरास्तथा विमानवासिनः॥४॥ १२ तदारवानुमानजावधिप्रबोधबोधिताः। सुरा हि कोटिकोटयः प्रभुं प्रमाय दुद्रुवुः ॥ ५॥ युग्मम् । तदा तस्मिन्नवसरे तस्य दुन्दुभेर्य आरवः शब्दस्तदनुमानाज्जातो १५ योऽवधिप्रबोधोऽवधिज्ञानोपयोगस्तेन बोधिता ज्ञापिताः सावधानीकृताः कोटिकोटयोऽनेककोटिकोटिसङ्ख्याका रसातलाधिगाः पातालवासिनो भवनपतयः । अपिः पुनरर्थे । पुनर्मनुष्यलोकगा मर्त्यलोकवासिनो १८ व्यन्तराः । च पुनस्तदूर्ध्वगास्तेभ्यो व्यन्तरेभ्य ऊर्द्धगा उपरिवासिनः खेचरा ज्योतिष्कास्तथा विमानवासिनो वैमानिकाः सुरा देवाः प्रभु श्रीवीरखामिनं प्रमाय विहारोन्मुखं ज्ञात्वा दुद्रुवुस्तद्भक्त्यर्थं धावन्ति २१ स्म । रसातलेत्यादि । 'नागलोको रसातलम्' इति हैमः । रसातलमधिगच्छन्तीति विग्रहे 'अन्यत्रापि दृश्यते' (वा०) इति गमेर्डः ।२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy