________________
६२
श्रीगौतमीयकाव्यं
तृतीयः सर्गः। अथर्जुवालुकानदीतटस्थसालसालतः । विहर्तुमुद्यते विभौ ननाद देवदुन्दुभिः ॥ १॥ सुरासुरश्रेणिवृतः समन्ताद्यो दिव्यधाम स्वकमाजगाम । विभ्राजमानो विलसद्विभूत्या तमीश्वरं वीरजिनं प्रणौमि ॥१॥ ६ अथाऽऽनन्तरं विभौ श्रीवीरस्वामिनि ऋजुवालुकानामनद्याः तटस्थो यः सालो नाम सालो वृक्षस्तस्साचदधस्तनप्रदेशाद्विहत्तु उद्यते सति आकाशे देवदुन्दुभिर्देववाद्यं ननाद ध्वनति स्म । सालेत्यादि । ९ सालः स तरौ वृक्षमात्रप्राकारयोरपि' इत्यनेकार्थः । ननादेति । 'नद अव्यक्ते शब्दे' अस्मात्करि लिट् । अस्मिन् सर्गे प्रमाणिका
वृत्तम् , तल्लक्षणं च–'प्रमाणिका जरौ लगाविति' ॥१॥ १२ तकगभीरनिःस्वनो दिगन्तराणि चानशे ।
इवाज्यविन्दुरेकतो गतो जलानि पल्वले ॥२॥
तस्य देवदुन्दुभेगंभीरो यो निःखनो ध्वनिः स दिगन्तराणि सर्व१५ दिग्मध्यप्रदेशान् आनशे व्यामोति स्म । कः कानीवेत्याह-पत्वले
लघुसरसि एकत एकस्मिन्प्रदेशे गतः प्राप्त आज्यबिन्दुरस्त्यानघृतबिन्दुरुपलक्षणात्तैलबिन्दुर्जलानीव यथा पल्वलैकप्रदेशस्थस्तैलादिबिन्दुः ५८ प्रायः सर्वाण्यपि तद्गतजलानि व्याप्नोति तथेत्यर्थः । तकदित्यादि। 'अव्ययसर्वनाम्नां' (५।३।७१) इति टेः प्रागकच् , 'मन्द्रो गम्भीर' इति हैमः । गम्भीरवद्गभीरशब्दोऽपि बोध्यः । चः समुच्चये । आनशे
इति । 'अशूङ्ग व्याप्तौ' कर्तरि लिट् । पल्वले इति । 'वेशान्तः २२ पल्वलोऽल्पं तत्' इति हैमः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org