SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ।। गौतमीयप्रकाशाख्यटीकया सहितम् । बहिर्वप्रान्तस्ता बोध्याः । यदुक्तं समवसरणस्तवे-'बहिवप्पदारमज्झे दो दो वावीउ हुंति वट्टमि । चउरंस समोसरणे इग इग वावीय कोणेसु ॥१॥ इति । अन्यस्मिन् स्तोत्रे पुनरेवं 'बीयंतो तिरि ईसाणि ३ देवच्छंदो अ जाण तइअंतो। तह चउरंसे दुदु वावी कोणओवट्टि इक्किक्का ॥१॥ इति। त्वरयन्तीति । त्वरमानान् प्रेरयन्तीत्यर्थः । 'जित्वरा संभ्रमे' अस्य घटादयः षित इति षित्वाणिचि ह्रखत्वम् । ६ आप्रतीरमिति । 'तटं तीरं प्रतीरं च' इति हैमः । तनुशुचीति । 'शुचिः शुद्धे सितेऽनले। ग्रीष्माऽषाढानुपहतेषूपधाशुद्धमन्त्रिणि, शृङ्गारे' इति हैमः। निर्ममिरे इति । निपूर्वान्माङः कर्मणि लिट् ॥३४-३६॥९ ननु महदाश्चर्यमेतत् यत्सर्वमपीदं सद्य एव व्यधायीत्याशङ्कयाहसकलमपि निमेषमात्रमेव प्रभवति कर्तुमिदं यदेककोऽपि । तदिह सुरवराश्चतुर्निकाया युगपददो रचयन्तु किं नु चित्रम् ॥३७॥ यद्यदि एककोऽपि देवः सकलमपीदं कर्त्तव्यजातं निमेषमात्रमेव १५ निमेषमात्रेणैव कालेन कर्तुं विधातुं प्रभवति समर्थो भवति, तत्तर्हि इह प्रस्तावे चतुर्निकायाः सुरवराश्चतुर्जातीया देवा युगपत् समकालमदः समवसरणं रचयन्तु, किं नु चित्रं किमत्राऽऽश्चर्य ? न किमपीति १८ भावः । निमेषेत्यादि । निमेषो पक्षमस्पन्दनप्रमाणः काल उच्यते । स एव मात्रा प्रमाणं यत्र कर्मणि, तदिति क्रियाविशेषणमिदम् । चतुरित्यादि । चत्वारो निकाया निवासा उत्पत्तिस्थानानि येषां ते इति विग्रहः । नुशब्दोऽत्र वितर्के ॥ ३७॥ २२ १ समवसरणप्रकरणे-'गा० १८' तमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy