SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं तनुशुचिकरणानि पुष्करिण्यः शुचिभुवि निर्ममिरे वरामरैस्ताः ॥ ३६ ॥ त्रिभिर्विशेषकम् । पुनरपि वरामरैः प्रधानदेवैः शुचिभुवि समवसरणाबहिः शुद्धभूमिकायां ताः अनन्तरमेवोच्यमानखरूपास्तनोः शरीरस्य यः शुचिः ६शृङ्गारस्तस्य करणानि प्रधानकारणभूताः पुष्करिण्यश्चतस्रोऽष्टौ वा वाप्यो निर्ममिरे निर्मिताः, रचिता इत्यर्थः । ताः का इत्याह-या वाप्यो दिशि दिशि चतुर्दिक्षु गोपुराणां प्रतोलीद्वाराणां पुरतोऽग्रतो ९ हस्तिनखात् क्रमनिम्नोत्तरणमार्गात् अधःस्थलीस्थाः अधोभूप्रदेशस्थिताः सत्यः समवसरणभूमि आरुरुक्षून् आरोदुमिच्छून् मानवान् श्रमहर णात् त्वरयन्ति त्वरां कारयन्तीवेत्युत्प्रेक्षा । अत्र अपिशब्दस्य इवाऽर्थ१२ कत्वात् पुनर्या वाप्यो विमलजलै ताः पूर्णास्तथा सुखेनाऽवतारोऽव तरणं यासु ताः, यद्वा सुखयतीति सुखः सुखप्रदोऽवतारो यासु तास्तथा विकसितानां प्रफुल्लानां वारिजानां कमलानां राजिभिः १५श्रेणिभी राजमानाः शोभमाना एवंविधाः सत्यः आप्रतीरं तटपर्यन्तं अनिलेन वायुना तरलिताभिश्चपलीकृताभिर्जललहरीभिर्कल्लोलैरध्वगान् समवसरणमार्गगतलोकान् मिलन्त्य इव स्थिता इति शेषः । पुनर्यत्र १८ यासु वापीसु कलरुतैरव्यक्तमधुरशब्दैर्ललिता मनोज्ञा मरालानां हंस पक्षिणां माला श्रेणिः सुष्टु शोभनो घोषो ध्वनिर्यस्याः सा सुघोषा या मेखला स्त्रीणां कटिमेखला सा इव विलसति शोभते एवंविधा २१ वाप्यो देवैर्निर्मिता इति संबन्धः । हस्तीत्यादि । 'हस्तिनखः परि कूटम्' इति हलायुधः, 'दुर्गद्वारोचरणमार्गे द्वाविति' तट्टीका, यद्यप्यत्र २३ कविकल्लोलात् समवसरणाबहिरधःस्थलीस्था वाप्य उक्तास्तथापि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy