SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्य टीकया सहितम् । ५७ धारणधर्मरूपकथनादितीर्थकृत्त्वमुपभुज्य भुक्त्वा देशनानन्तरं यत्र मन्दिरे सदैव सर्वदा आत्मलयं स्वभावविलासं प्रविशति स्वभावे वस्तुमिच्छति । च पुनर्यत्र स्थितः सन् प्रतिसमयं अघातिकर्मणां ३ वेदनीयादीनां जालं समूहं विदलयति क्षपयति तत् अमरैर्देवैर्गणभृद्भिर्गणधरैश्च निषेवणीयं सेव्यं अत एव शुचितरमऽतिपवित्रम् ईश्वरस्य प्रभोरिदमैश्वरं प्रभुसम्बन्धि मन्दिरं देवछन्दाऽख्यं मणिमयतपनी - ६ यवप्रयो रत्नखर्णप्राकारयोर्गव्र्भे मध्यदेशे चैत्यसालादशोकवृक्षा गिरिशदिशामीशानकोणमुपसृत्य आश्रित्य व्यकुर्वन् विकुर्वन्ति स्म । व्यन्तरा इति शेषः । अवसरेत्यादि । 'लोपः शाकल्यस्य ' ( ८|३|१९ ) ९ इत्यस्य वैकल्पिकत्वान्नाऽत्र यलोपः । लयमिति । 'लयस्तूर्यत्रयी साम्ये संश्लेषणविलासयोः' इति हैमः । मणीत्यादि । मणिमयं च तपनीयवप्रं चेति विग्रहः ॥ ३२ ॥ ३३ ॥ अथ सवर्णनं चतुर्वापीरचनाप्रकारमाह पुनरपि पुरतोऽपि गोपुराणां दिशि दिशि हस्तिनखादधःस्थली स्थाः । --- समवसरणभूमिमारुरुक्षू ञ्छ्रमहरणा त्वरयन्ति मानवान् याः ॥ ३४ ॥ विमलजलभृताः सुखावतारा विकसितवारिजराजिराजमानाः । अनिलतरलिताभिराप्रतीरं जललहरीभिरिवाध्वगान्मिलन्त्यः ।। ३५ ।। कलरुतललिता मरालमाला विलसति यत्र सुघोषमेखलेव । Jain Education International १२ १५ ૩ २.१ २३ For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy