SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं तीत्येवंशील इति विग्रहे शीले णिनिः । दिदेवेति । 'दिवु क्रीडादौ' इत्यस्माल्लिट् ॥ ३० ॥ ३ इह पुनरपि गुह्यकादिदेवा व्यदधत गोपुरतोरणानि सद्यः। प्रतिदिशमपि रोहणाय पाद स्थितिकरणानि सहस्रविंशतिं च ॥ ३१॥ पुनरपि गुह्यकादिदेवा यक्षादिदेवविशेषा इहाऽस्मिन् प्राकारत्रये प्रतिदिशं चतुर्दिक्षु सद्यः शीघ्रं गोपुराणि च द्वाराणि तोरणानि च ९ प्रतीतानि तानि व्यदधत कुर्वन्ति स्म । सतोरणानि द्वाराणि चक्रुरि. त्यर्थः । च पुनरधिरोहणाय अर्हद्वन्दनार्थमागच्छतां जनानामाऽऽरोहण निमित्तं प्रतिदिशं सहस्रविंशतिं विंशतिसहस्राणि पादस्थितिकरणानि १२ सोपानानि व्यदधतेति पुनर्योगः । गुह्यकेति । 'यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि' इति हैमः । व्यदधतेति । विपूर्वाद्धाञः कर्तरि लङि आत् । गोपुरेति । 'पूारे गोपुरम्' इति हैमः । १५ 'द्वारमात्रेऽपि गोपुरम्' इत्यनेकार्थः । पादेत्यादि । पादयोः स्थितिः क्रियते एभिरिति विग्रहे करणे ल्युट् । इदं हि यौगिकं नाम ॥३१॥ अवसरमुपभुज्य तीर्थकृत्त्वं प्रविशति चात्मलयं सदैव यत्र । १८ प्रतिसमयमघातिकर्मजालं विदलयति स्फुटवीर्यवानधीशः॥३२॥ मणिमयतपनीयवप्रगर्भे गिरिशदिशामुपसृत्य चैत्यसालात् । तदमरगणभृन्निषेवणीयं शुचितरमैश्वरमन्दिरं व्यकुर्वन् ॥३३॥ ... युग्मम् । स्फुटं प्रकटं वीर्यमस्यास्तीति तद्वान् अनन्तबलसम्पन्न इत्यर्थः । २३ अधीशस्त्रिजगत्पतिर्जिनोऽवसरे देशनादानक्ष(णे)तीर्थकृत्त्वमऽनन्यसा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy