________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ५५ तथा उपरि ऊर्ध्वदेशे सुवर्णसिध्या स्वर्णपरिणत्या परिणतः प्लवगशिरोभिः कपिशीर्षेः शालं रूप्यमयप्राकारमण्डलं अलञ्चकार शोभमानं चक्रे । प्रगदितेत्यादि । प्रगदिता प्रथमं कथिता त्रयोदशशतधनुः-३ खरूपा मितिर्मानं यस्याः सा प्रगदितमितिः, सा चासौ भूमिका चेति विग्रहः । अर्जुनेति । 'अर्जुननिष्ककार्त्तखरकर्बुराणि' इति हैमः । विवेष्टे इति 'वेष्ट वेष्टने' इत्यतः कर्तरि लिट् ॥ २८॥ ६
समुदितवरणत्रयं तदासीत्
त्रयमिव गुप्तिनिवद्धमात्मनीनम् । भगवदभिहितोऽथवा शिवाध्वा .
त्रिकविधयेव नु मूर्त्ततामवामोत् ॥ २९॥ नु इति वितकें । तत् समुदितं समुदायरूपेण स्थितं वरणत्रयं प्राकारत्रयम् , आत्मने हितमात्मनीनं गुप्तिभिर्मनोवाकायगुप्तिभि-१२ र्निबद्धं रचितं त्रयमासीदिवेत्युत्प्रेक्षा । अथवा भगवता सर्वज्ञेन अभिहितः कथितो यः शिवाध्वा ज्ञानदर्शनचारित्रात्मको मोक्षमार्गः स एव त्रिकविधया ज्ञानादित्रिकभेदेन मूर्ततां मूर्तिमत्त्वमवाऽऽप्नोत् १५ प्राप्त इवेत्यऽप्युत्प्रेक्षा ॥ २९ ॥ सुरपतिधनुषी नु मीलयित्वा कृतमिव कौतुकचारिणामघोना । विविधवसुचितं दिदेव दीप्रद्युतिवरणत्रयमम्बरप्रतिष्ठम् ॥३०॥१८ ___ पुनर्नु इति वित, विविधैर्बहुप्रकारैर्वसुभी रत्नादिद्रव्यैश्चितं निर्मितं अत एव दीपा दीपनशीला द्युतियॊतिर्यस्य तत्तथोक्तं तथाऽम्बरे आकाशे प्रतिष्ठा स्थितिर्यस्य तदेवंविधं वरणत्रयं कौतुक-२१ चारिणा कौतुकवता मघोना इन्द्रेण सुरपतिधनुषी मीलयित्वा संयोज्य कृतमिवेत्येवं दिदेव शोभते स्म । कौतुकेति । कौतुकं चरति प्रामो- २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org