SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं अन्तरालभूमेमध्यभूमेः परितः समन्ताद्वर्तमानोऽसौ वर्णमयः प्राकारो मणिमयानि यानि वरणाऽग्राणि कपिशीर्षाणि तेषां मालया ३श्रेण्या अतिशुशुभेऽत्यन्तं शोभते स्म । कीगित्याशय औपम्येन शोभाप्रकारमेव दर्शयति-स हीत्यादि । स प्राकारो हि आवितर्दैः जगतीवलयोपरिवर्त्तिवेदिकां विना अनुलवणसमुद्रं लवणसमुद्रस्य ६ समीपे स्थितस्य जगतीवलयस्य साम्यं सादृश्यमापत् प्राप । तस्याऽप्येवंविधस्थित्याऽतिरमणीयत्वादिति भावः । आवितर्देरिति । मर्यादार्थादाझ्योगे पञ्चमी । 'वेदी वितर्दिः' इति हैमः ॥ २६ ॥ ९ अथ रूप्यवप्ररचनाप्रकारमाहदधदिह विबुधैः सहाभ्यसूयामसुरगणोऽथ गृहीतनायकाज्ञः । प्रथममुदितया सुपर्वशक्त्या रजततयाऽऽहृतपुद्गलांस्ततान ॥२७॥ १२ अथ वर्णवप्ररचनानन्तरं गृहीता नायकाज्ञा खखाम्याऽऽदेशो येन स एवंविधोऽसुराणां देवविशेषाणां गणो, विबुधैरुपरितनदेवैः सह अभ्यसूयां मात्सर्यं दधत् धारयन् , इह समवसरणरचनाधिकारे प्रथम १५ उदितया प्रागुक्तया सुपर्वशक्त्या देवशक्त्या आहृतपुद्गलान् गृहीत पुद्गलान् रजततया रूप्यभावेन ततान विस्तारयामास परिणमयति स्मेति यावत् । अभ्यसूयामिति । 'असूयाऽन्यगुणदूषणम्' इति १८हैमः ॥ २७ ॥ प्रगदितमितिभूमिकां विहायाऽर्जुनवरणं वलितैः स तैर्विवेष्टे । उपरि परिणतैः सुवर्णसिध्या प्लवगशिरोभिरलञ्चकार शालम् २८ २१ ततः सोऽसुरगणः खर्णवप्रात् प्रगदितमितिभूमिकां प्रागुक्तप्रमाण___ भूमिं विहाय त्यक्त्वा वलितैर्वलयाकृत्या व्यवस्थितैः सौरूप्यमयपरि२३ णतैः पुद्गलैः करणभूतैरर्जुनवरणं स्वर्णवप्रां विवेष्टे वेष्टयामास । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy