________________
गौतमीय प्रकाशाख्यटीकया सहितम् ।
प्रथमवरणतो धनुः शतानि त्र्यधिकदशैत्य बहिस्ततान वप्रम् । परिमितिमधिकृत्य चोक्तपूर्वा
पृथुलतयोच्चतया च भक्तिरक्तः ॥ २५ ॥ युग्मम् । त्रिदिवसुराणां स्वर्गवासिदेवानां विकुर्वणामनुकरोति तच्छीलो वैमानिकदेववद्विकुर्वणां कुर्वाण इत्यर्थः । तथा भक्तिरक्तोऽर्हद्भक्त्य - ६ नुरागी एवंविधो भानां ज्योतिष्कानां गणः समूहः उपाहिताः संयोजिता ये सूक्ष्मपुद्गलास्तेषु क्षणेन द्युतितहिरण्मयतां गतां दीप्तिमस्वर्णस्वरूपत्वं प्राप्तां परिणतिं परिणमनं उपपादयाञ्चकार उत्पादयति ९ स्म । अथैवं पुद्गलपरिणामं कृत्वा प्रथमवरणतः प्रथमनिर्मित मणिमयप्राकारात् बहिः प्रदेशे त्र्यधिकदशैर्धनुः शतानि त्रयोदशधनुषां शतानि एत्य आगत्य एतावद्भुवमतिक्रम्येत्यर्थः । पृथुलतया विस्तीर्णतया च १२ पुनरुच्चतया उन्नततया पूर्वमुक्तामुक्तपूर्वं 'पञ्चधनुः शता' ( २।२१ ) इत्यादिना प्राग्दर्शितां परिमितिं परिमाणमधिकृत्य आश्रित्य वप्रं स्वर्णमयप्राकारं ततान विस्तारयति स्म विकुर्वितवानिति यावत् । १५ त्रिदिवेत्यादि । 'गौस्त्रिदिवमूर्ध्वलोक' इति, 'संयोजित उपाहिते' इति च हैमः । हिरण्मयेति । ' दाण्डिनायनहस्तिनायन -' ( ६।४।१७४ ) इत्यादिना साधुः । वरणेति । 'प्राकारो वरणः साल -' इति हैमः । १८ अत्र चकारौ द्वावपि समुच्चयार्थी ॥ २४ ॥ २५ ॥
"
मणिमयवरणाऽग्रमालयाऽसावतिशुशुभे परितोऽन्तरालभूमेः । अनुलवण समुद्रमाऽऽवितर्देः स हि जगतीवलयस्य साम्यमापत् ॥ २६ ॥
५३
Jain Education International For Private & Personal Use Only
२.१
२३
www.jainelibrary.org