SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीगौतमीयकाव्यं सम्भावनां करोति-'यद्यस्माद्देवैरखिलं समस्तमिदमनन्तरोक्तं कृत्यं क्षणेन क्षणमात्रेण अकारि निष्पादितं' तत्तस्माद् ज्ञायते अहो इति ३ आश्चर्ये, द्यौः खर्ग एव वसतिगृहं येषां ते धुवसतयो देवा महानुभावा महाप्रभावाः । विद्यन्ते इति शेषः । पवीत्यादि । 'सूचीमुखं तु हीरकः वरारकं रत्नमुख्यं वज्रपर्यायनाम च' इति हैमः ॥ २२ ॥ ६ अत उपरितनाऽमरौघकृत्ये हितरतिनितिहेतुतां प्रपन्ने । शशधरदिवसेशयोनिदेशा तदनुचरास्त्रिदशास्त्वरां प्रतीयुः॥ २३ ॥ अतोऽस्मिन् उपरितनाऽमरौघस्य ऊर्ध्वलोकोद्भवदेवसमूहस्य कृत्ये कार्ये हितरतिनिवृतीनां हितसुखमुक्तीनां हेतुतां कारणत्वं प्रपन्ने प्राप्ते १२ सति, एतावता सम्यक् फलसत्तामुत्पाद्य निष्ठां परिपूर्णतां गते सति शशधरदिवसेशयोश्चन्द्रसूर्ययोनिर्देशात् आज्ञातस्तयोरेवाऽनुचराः सेवकप्रायास्त्रिदशा देवास्त्वरां प्रति ईयुः प्रापुः । अद्भक्तिं विधातुं १५ सत्वरा बभूवुरित्यर्थः । अत इति । सप्तम्यर्थे तसिल् । उपरिभवा उपरितनास्ते च तेऽमराश्च तेषामोघ इत्यादिविग्रहः । इह हितेत्यादि सिद्धांते-'हियाए सुहाए खेमाए निस्सेयसाए' इत्याद्यर्हद्भक्तिफलोक्ते१८ रुपात्तम् । शशधरेत्यादि । 'देवताद्वन्द्वे-' (६।३।२६) इत्यस्य प्रायिकत्वादत्र पूर्वपदस्य नाऽऽनङ्ग । ईयुरिति । इणः कर्तरि लिट् ॥२३॥ अथ खर्णमयवप्ररचनाप्रकारमाहत्रिदिवसुरविकुर्वणानुकारी भगण उपाहितसूक्ष्मपुद्गलेषु । २२ परिणतिमुपपादयाञ्चकार द्युतितहिरण्मयतां गतां क्षणेन ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy