________________
६०
श्री गौतमीयकाव्यं
अथ समवसरणस्य सर्वोत्कृष्टं सौन्दर्य्यमुपपादयतिअपरसुरग्रहस्य चेदुदग्रां श्रियमृषयोऽपि हि वर्णयांबभूवुः । किमु सकलसुरासुरेश्वरार्ध्याश्रयनिलयो न भवेदनुत्तरश्रीः ॥ ३८ ॥ ६ हीति निश्चितं, ऋषयो मुनीश्वरा अपरसुरग्रहस्यापि अन्यदेवभवनादेरपि चेद्यदि उदग्रामतिप्रवरां श्रियं शोभां वर्णयांबभूवुः वर्णयन्ति स्म । आगमे इति शेषः । तर्हि सकलसुरासुरेश्वराणां सर्वसुराऽसु९रेन्द्राणां योऽर्यः पूज्यो भगवान् तस्याऽऽश्रयो निवासभूतो यो निलयः प्रासादः सोऽनुत्तरा सर्वोत्कृष्टा श्रीः शोभा यस्य सोऽतिप्रधान श्रीकः किमु न भवेत् ? अपि तु भवेदेवेत्यर्थः ॥ ३८ ॥
अथोपसंहरन्नाह---
इत्थं नाथाऽऽगमनजनिताऽऽमोदमत्ताः प्रसक्ताः श्रीमद्भक्त्या भवनपतयो व्यन्तराः खेचराश्च । कल्पावासाः पुनरजरसोऽनादिकृत्याऽभियुक्ताः प्रीत्या चक्रुः समवसरणस्थापनां प्रेक्षणीयाम् ॥ ३९ ॥ नाथस्य वीरप्रभोराऽऽगमनेन जनित उत्पन्नो य आमोदो हर्षस्तेन १८ मता हर्षिताः अत एव श्रीमतस्तीर्थकृद्विभूतिमतो जिनेन्द्रस्य भक्त्यां प्रसक्ताः प्रकर्षेण लग्नाः पुनरनादीनि अनादिकालसंबन्धीनि यानि कृत्यानि खखकर्त्तव्यानि तेषु अभियुक्ता उद्यता एवंविधा भवनपतयोऽसु२१ राद्याः १ व्यन्तराः पिशाचाद्याः २ च पुनः खेचरा ज्योतिष्काश्चन्द्रादयः ३ पुनः कल्पावासा वैमानिकाः सौधर्मजादयः ४ चतु२३ र्विधा अपि अजरसो देवाः प्रीत्या आनन्देन इत्थमुक्तप्रकारेण प्रेक्ष
१२
१५
Jain Education International For Private & Personal Use Only
www.jainelibrary.org