________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ४९ 'मात्रं त्ववधृतौ खार्थे कास्य मात्रा परिच्छदे । अक्षरावयवे द्रव्ये माल्येऽल्पे कर्णभूषणे । काले वृत्ते च' इति हैमः (अनेकार्थः)॥१७॥ तदुपरि विलसत् सितातपत्रं
चटुलितमौक्तिकजालकिङ्किणीकम् । अभवदिव नृलोकसंमुखीनं
शिवपदमधिनाथहाईहूतम् ॥ १८ ॥ तस्य ध्वजस्योपरि ऊर्श्वभागे विलसत् शोभमानं तथा चटुलितानि अचिन्त्यदेवशक्त्या चपलीकृतानि मौक्तिकजालानि ग्रथितमुक्ताफलसमूहाः किङ्किण्यो लघुघण्टिकाश्च यस्मिंस्तत् एवंविधं सितातपत्रं ९ श्वेतच्छत्रं अभवत् अत्रापि इवशब्द उप्रेक्षाद्योतकः, ततश्चोत्प्रेक्षते'नास्तीदं छत्रं किंतु अधिको नाथोऽधिनाथस्त्रिजगन्नायको वीरप्रभुस्तस्य हाईमभिप्रायस्तेन इतमाकारितं सत् शिवपदं मुक्तिस्थानमपि १२ नृलोकस्य मनुष्यलोकस्य संमुखीनं अभिमुखमभवदिति', आस्तां किलाऽन्यो महेन्द्रादिलोक इति अपिशब्दार्थः । किङ्किणीति । 'किङ्किणी क्षुद्रघण्टिका' इति हैमः । मतान्तरे किङ्कणीति निरिकारक- १५ कारोऽपि ॥ १८ ॥
अहमहमिकयाऽथ भक्तिभाजो
निजनिजनाथनियुक्तकाश्च शक्ताः । यधिकदशविकल्पकल्पदेवा - मणिरचिताऽङ्गणरक्षणं विचक्रुः ॥ १९॥
अथाऽनन्तरं भक्तिं मनसि निर्भरप्रीतिं भजन्तीति भक्तिभाजस्तथा निजनिजनाथेन स्वस्वखामिना देवेन्द्रेण नियुक्ता एव नियुक्तका २२ १ मतान्तरे इकारविरहितः ककारः किङ्कणीशब्दः इति भावः ।
४ गो. का.
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org