SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीगौतमीयकाव्यं नटननिपुणसालभञ्जिकाभि__ विविधविलासवतीभिरभ्युपेतैः। सुरचितमणितोरणैः पुरस्ता। त्तदभिमुखाः ककुभो बभुश्चतस्रः ॥१६॥ विविधा बहुप्रकारा ये विलासाः स्त्रीणां खाभाविकाऽलङ्कारास्ते ६ सन्ति आसामिति विविधविलासवत्यस्ताभिरत एव नटने नृत्यक्रियायां निपुणा दक्षा एवंविधा याः सालभञ्जिकाः पञ्चालिकाः 'पुत्तलिकेति' लोकप्रसिद्धास्ताभिः अभ्युपेतैः समन्ताद्युक्तैः पुरस्तादग्रतः सुष्टु ९रचितानि यानि मणितोरणानि तैः करणभूतैः तेषां तोरणानामभिमुखाः संमुखाश्चतस्रोऽपि ककुभो दिशो बभुः शोभन्ते स्म । 'साल भञ्जी पाञ्चालिका च पुत्रिका' इति हैमः ॥ १६ ॥ १२ चतसृषु च ककुप्सु वेदिकान्ता दशशतयोजनदीर्घतोच्छ्रितोऽधः । विविधमणिमयो ध्वजोऽमरैस्तै_ य॑धित चतुष्टयमात्रयेव धर्मः ॥ १७ ॥ च पुनस्तैरमरैर्देवैश्चतसृषु ककुप्सु चतुर्दिक्षु वेदिकान्तात् मणिपीठिकाप्रान्तादऽधोभागे दशशतयोजनानि सहस्रयोजनानि दीर्घतया १८ प्रलम्बत्वेन उच्छ्रित उन्नतो विविधमणिमयो बहुप्रकाररत्नमयो ध्वजो व्यधित निर्मितः, रचित इत्यर्थः । इवशब्द उत्प्रेक्षायाम् । ततश्चोत्प्रेक्षते—'अयं ध्वजो न भवति, किं तु चतुष्टयमात्रया चतुष्टयमानेन दानादिलक्षणो धर्म एव रचित इति' । व्यधितेति । विपूर्वाद्धाञः २२ कर्मणि लुङ् । चतुष्टयेत्यादि । चत्वारो अवयवा अस्येत्यर्थे तयप् । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy